________________
नामकरणम् ।
६१
ॐ धाता ददातु नो रयिमी० नत्स्वाहा । धात्र इ० । ॐ धाता प्र० म स्वाहा | धात्र इ० । ॐ धाता ददातु नो रयिं प्रा० सः स्वाहा । धात्र इ० । ॐ धाता द० जोषाः स्वाहा । धात्र इदं० । ॐ अनु नोऽद्यानु० यः स्वाहा । अनुमत्या इ० । ॐ अन्विद० षः स्वाहा । अनु० । ॐ अनुम० च्छतु स्वाहा । अनु० । ॐ यस्यामिदं० यच्छतु स्वाहा | अनुमत्या इदं० I राकामह५० मुक्थ्यः स्वाहा । राकाया इदं० । ॐ यास्ते राके सु० रराणा स्वाहा । राकाया इदं० । ॐ सिनीवालि पृ० वि नः स्वाहा | सिनीवाल्या इदं । ॐ या सुपाणि: ० जुहोतन स्वाहा | सिनीवाल्या इदं० । कुहुपक्षे- ॐ कुहुपहर सुभगां० विधेम स्वाहा। कुहा इदं । ततोऽङ्ग होमजयाद्युपहोमादि त्रिवृदन्नहोमीय पुण्याहादिवाचनान्तं कृत्वा प्रजापतिः प्रीयतामित्युक्त्वा नामकरणं कुर्यात् ।
ॐ
O
तत्राऽऽदावेकं गुरुं नाम सुमुहूर्ते मातापितृभ्यां कार्यममुकोऽयमिति । एतच्च नाम मातापितरावेव मौजीबन्धनपर्यन्तं जानतिः । अनन्तरं पुत्रोऽपि जानीते |
तत आचारात्तण्डुलान्कांस्याद्यन्यतमे पात्रे प्रसार्य सुवर्णशलाकया श्रीगणपतये नम इति लिखित्वा नामानि लिखेत् । तत्राऽऽदौ शास्त्रान्तरप्राप्तं कुलदेवतानाम व्याडीश्वर योगेश्वरीभक्त इति ।
ततः शास्त्रान्तरप्राप्तं जन्मकालिकमासनाम कृष्णोऽनन्त इति यथामासम् । ततो व्यावहारिकं स्वन्निपुरुवाचि देवतावाचि वा कार्यम् । ततो जन्मनक्षत्रवाचकप्रकृतिकं जातार्थकाणादिप्रत्ययान्तं कृत्तिक इत्यादि । एतानि नामानि लिखित्वा श्रीगणपतये नम इति मातुरुत्सङ्गस्थस्य बालस्य दक्षिणकर्ण उक्त्वा त्वं कुलदेवतानाम्ना व्याडीश्वर • योगेश्वरीभक्तोऽसीति कथयित्वा नाम सुप्रतिष्ठितमस्त्विति भवन्तो बुदन्त्विति विमान्वाचयेत् । नाम सुप्रतिष्ठितिमस्त्विति विप्राः प्रतिब्रूयुः ।
ततः दुलेदेवतानाम्ना व्याडीश्वर योगेश्वरीभक्तोऽयं भवतः सर्वान्नाह्मणानभिवादयत इत्युक्त्वाऽऽयुष्मान्भवतु व्याडीश्वर योगेश्वरीभक्त इति विरुत्ते ऽस्मै व्याडीश्वर योगेश्वरीभक्ताय पुण्याहं भवन्तो ब्रुवन्त्विति · विभान्वाचयेत् । ॐ अस्तु पुण्याहंमिति त्रिर्विप्राः । एवमस्मै व्याडी ० रीभक्ताय स्वस्त्ययनं भव०सु । अस्मै व्याडीश्व० रीभक्ताय ऋद्धिं भव० तु । इति स्वस्त्ययनर्धिवाचमम् । ॐ अस्तु स्वस्त्ययनम्, ॐ अस्तु
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com