________________
षष्ठीपूजमायोगः ।
ॐ विघ्नेशाय नमो विघ्नेशमावाहयामि । जन्मदाभ्यो नमो जन्मदा आवा• । षष्ठीदेव्यै नमः षष्ठीदेवीमा० । जीवन्तिका यै० जीवन्तिकामान स्कन्दाय० स्कन्दमा० । शस्त्रे भगवत्यै० भगवतीमा० । इत्यावाह्य विघ्नेराजन्मदापी देवी जीवन्ति कास्कन्दभगवतीभ्यो नम इति षोडशोपचारैः पूजयेत् ।
-
ततः प्रार्थना — सर्वविघ्नहरोऽसि त्वमेकदन्त गजानन । षष्ठीगृहेऽर्चितः प्रीत्या बालं दीर्घायुषं कुरु ॥ लम्बोदर महाभाग सर्वोपद्रवनाशन । त्वत्प्रसादादविघ्नेन चिरं जीवतु बालकः ॥ इति विघ्नेशं प्रार्थयेत् ।
वरदाः सायुधा यूयं जन्मदा इति विश्रुताः । शक्तिभिः सह बालं मे रक्षतात्राह्नि जागरे ॥ इति जन्मदाः प्रा० ।
शक्तिस्त्वं सर्वदेवानां लोकानां हितकारिणी । मातर्बालमिमं रक्ष महाषष्ठि नमोऽस्तु ते । गौरीपुत्रो यथा स्कन्दः शिशुत्वे रक्षितः पुरा । तथा ममाप्ययं बालः षष्ठिके रक्ष्यतां नमः ॥ इति षष्ठीदेवीं प्रा० ।
कार्तिकेय महाबाहो गौरीहृदयनन्दन । कुमारं रक्ष भीतिभ्यः पाहि देव नमोऽस्तु ते ॥ इति स्कन्दं प्रा० |
अस्मिंस्तु सूतिकागारे देवीभिः परिवारिता । रक्षां कुरु महाभागे सर्वोपद्रवनाशिनि ॥ अयं मम कुलोत्पन्नो रक्षार्थं पादयोस्तव । नीतो मातर्महाभागे चिरं जीवतु बालकः ॥ रूपं देहि जयं देहि भगं भवति देहि मे । पुत्रान्देहि धनं देहि सर्वकामांश्च देहि मे ॥ शान्तिरस्तु शुभं चास्तु प्रणम्य त्वां सुखाय यत् । यतः समागतं पापं तत्रैव प्रतिगच्छतु ।।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
५९
www.umaragyanbhandar.com