________________
संस्कारपद्धतीॐ मा ते पुत्र रक्षो हिश्सीर्मा धेनुरतिसारिणी ।
प्रिया धनस्य भूया एधमाना स्त्रे वशे । आधापितं कुमारमभिमन्त्रयते ।
ॐ अयं कुमारो जरां धयतु सर्वमायुरंतु ।
तस्मै स्तनं प्रप्रायस्वाऽऽयुः कीर्तिर्व) यशो बलम् । इति दक्षिणस्तनं पाययति ।
तत उत्तरस्तनं तूष्णी प्रक्षाल्यतेनैव मन्त्रेण पाययति । ॐ नामयति न रुदति यत्र वयं चदामो यत्र वाऽभिमृशामसि । इत्युभौ स्तनावभिमृशति । प्रतिस्तनं मन्त्रावृत्तिः।
ॐ आणे गृहेषु जाग्रत यथा देवेषु जाग्रथ ।
एवमस्यै सुपुत्रायें जाग्रत । इति सूतिकायाः शिरसः समीपमुदकपूर्ण कुम्भं पिहिताननं निदधाति ।
सतो दुष्टस्थानस्थितग्रहपीडानिवृत्तये दानजपादि कारयेत् । ततः पितृन्प्रजापति चोद्दिश्य सहिरण्यानि तिलपात्राणि सुवर्णभूम्यादीनि च विभवानुसारेण ब्राह्मणेभ्यो दद्यात् । ततो भूयसी दक्षिणां दत्त्वा विप्राशिषो गृहीत्वा कर्मसाद्गुण्याय विष्णुं संस्मरेत् ।
ततो नालच्छेदादि यथाचारं कार्यम् । पुञ्या अपि जातकर्म तूणी कार्यम् ।
इंति जातकर्यप्रयोगः।
अथ षष्ठीपूजाप्रयोगः। पञ्चमे षष्ठे च दिवसे प्रदोषसमये स्नात्वा गन्धमाल्यमूषित आचम्य प्राणानायम्य देशकाला संकास्याः सूतिकायाः शिशोश्च सकलारिष्टनिरसनपूर्वकायुरारोग्यैश्वर्याभिवृद्धिद्वारा श्रीपरमेश्वरप्रीत्यर्थ विप्रेशस्य जन्मदानां षष्ठीदेव्या जीवन्तिकायाः स्कन्दस्य शस्त्रे भगवत्याच पूजन. महं करिष्य इति संकलय कुड्यादिलिखितप्रतिमास्वक्षतपुछेषु वा क्रमे णाऽऽत्राहयेत् ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com