________________
40
जातकर्मयोगः। ॐ कौबेरका विश्ववासो रक्षोराजेन प्रेषिताः । ग्रामान्सजातयो यन्तीप्सन्तः परिजाकृतान्स्वाहा । ॐ एतान्हतैतान्बध्नीतेत्ययं ब्रह्मणो दूतस्तानग्निः पर्यसस्तू ।। तानिन्द्रस्तान्बृहस्पतिस्तानहं वेद ब्राह्मणः । प्रमशतः कूट दन्तान्विफेशाल्लँम्बस्तनान्स्वाहा । ॐ नक्तंचारिण उरस्पेशानस्थलहस्तान्कपालपान्स्वाहा ॐ पूर्व एषां पितेत्युच्चैःश्राव्यकर्णकः । माता जघन्या गच्छन्ती ग्रामे विखुरमिच्छन्ती स्वाहा । ॐ नक्तंचारिणी स्वसा संधिना प्रेक्ष्यते कुलम् । या स्वपत्सु जागर्ति यस्यै विजातायां मनः स्वाहा ।। ॐ तासां त्वं कृष्णव ने क्लोमान हृदयं यकृत् ।
अग्ने यक्षीणि निह स्वाहा ।। इत्येकादशभिः स्वाहाकारान्तैर्भन्त्रैः प्रतिमन्त्रं हस्तेनैवाङ्गारेषु कणा. नावपति उद्भूपनार्थम् । ततः पाणी प्रक्षाल्य
ॐ यत्ते सुशीमे हृदयं दिवि चन्द्रमसि श्रितम् । तस्यामृतत्वस्य नो धेहि माऽहं पौत्रमघ५ रुदम् । वेद ते भूमि हृदयं दिवि चन्द्रमसि श्रितम् ।
वथाऽमृतत्वस्येशानो माऽहं पौत्रमघ५ रुदम् ।। इति द्वाभ्यां भूमिमालभते ।
अथ मेधाजननम्-दर्भग हिरण्यं प्रबध्य गोघृतेऽन्तर्धाय पाशिर• समन्येन धार्यमाणं कुमारं घृतं प्राशयति-. ॐ भूर्ऋचस्त्वयि जुहोमि स्वाहा । ॐ भुवो यजूषि त्वयि जुहोमि स्वाहा । ॐ सुवः सामानि त्वाय जुहोमि स्वाहा । ॐ भूर्भवः सुवरथर्वाङ्गिरसस्त्वयि जुहोमि स्वाहा । इत्येतेश्चतुर्भिः प्रतिमन्त्रम् । नात्र त्यागः । इति मेधाजननम् ।
ततः क्षेत्रिय त्वा निर्ऋत्यै त्वा० इमे । शं ते अग्निः सहा० भवन्तु । सूर्यमृत तम०. पाशात् । इत्येतैरुष्णशीताभिरद्भिः सर्वान्ते कुमारं स्नापयति । ॐ या दैवीश्चतसः प्र० राचैः । इति मातुरुत्सङ्ग कुमारमाधापयति । ततस्तूष्णीं दक्षिणं स्तनं प्रक्षाल्य
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com