________________
संस्कारपद्धतौ--
अय जातकर्मप्रयोगः। नातमाचे पुत्रे पिता तस्य मुखमालोक्य नवादावुदङ्मुखस्तदसंभव महे वाऽऽहताभिः स्वर्णयुताभिरद्भिः स्नायर्यात् । रात्रावनलसंनिधौ ।
ततो द्विराचम्य श्वेतवस्त्रमाल्यादिभिरलंकृतः पवित्रपाणिरकृतनालरछेदमपीतस्तन्यं क्षालितमलं कुमारं मातुरुत्सङ्गे माङ्मुखं संस्थाप्य स्वयं प्राङ्मुखो देशकालौ संकीर्त्य ममास्य कुमारस्य गर्भाम्बुपानजनितसकलदोषनिवर्हणायुर्मेधाव,भिवृद्धिबीजगर्भसमुद्भवैनोनिवर्हणद्वारा श्रीपरमेश्वरप्रीत्यर्थ जानकर्म करिष्य इति संकल्प्य मणपतिपूजनं पुण्याहवाचनं मातृकापूजनं तन्त्रेण पुरुषार्थकाङ्गभूते नान्दीश्राद्धे च कुर्यात् । नान्दीश्राद्धे युग्मब्राह्मणभोजनपर्याप्तमाम हिरण्यं वा स्वाहा न ममेति समर्पणवाक्ये विशेषः । इदं चाभेन न कदाचिदपि कार्यम् ।
ततोऽश्मनि परशुं निधाय तदुपरिष्टाद्धिरण्यं तानि विपरीतानि कृत्वा तदुपरि हस्ताभ्यां कुमारं प्राञ्चं धारयति ।
ॐ अश्मा भव परशुर्भव हिरण्यमस्तृतं भव । वेदो वै पुत्रनामाऽसि वि त्वर शरदः शतम् ।। अङ्गादङ्गात्संभवसि हृदयादधि जायसे ।
आत्मा वै पुत्रनामाऽसि स जीव शरदः शतम् ॥ इति । तत औपासनानिं बहिरुद्धननादिसंस्कृते देशे संस्थाप्योत्तपनीयमा म्बरीषं वाऽग्निं सूतिकागारे नीत्वा संस्थापयेत् । तप्तकपाले शुष्कगोमा यचूर्णप्रक्षेपेण प्रज्वलित उत्तपनीयः । भ्राष्ट्रेऽग्निः स आम्बरीषः । ततस्तमग्निं परिस्तीर्य समन्त्रं परिषिच्य
ॐ शण्डो मर्क उपचीरः शाण्डिकेर उलूखलः । च्यवनो नश्यतादितः स्वाहा । नात्र त्यामाः । ॐ आलिखन्विलिखन्ननिमिषन्कि वदन्त उपश्रुतिः स्वाहा । ॐ अर्यम्णः कुम्भी शत्रुः पात्रपाणिनिपुणिः स्वाहा । ॐ आन्त्रीमुखः सर्पपारुणो नश्यतादितः स्वाहा ।
ॐ केशिनी श्वलोमिनी बजाबोजोपकाशिनी । अपेत नश्यतादितः स्वाहा ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com