SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ ५२ संस्कारपद्धतीदर्वामान्यस्थाली प्रणीतामणयनं प्रोक्षणीपात्रमुपवेषं संमार्गदर्भानिध्मं बहिरवज्वलनदर्भानाज्यमित्येतान्यासादयेत् । ततो ब्रह्मवरणादि सामा. न्यमधानान्तं कर्म समानम् । __ अथ वैशेषिकप्रधानहोमः-ॐ धाता ददातु नो रयिमी० नत्स्वाहा धात्र इदं । ॐ धाता प्रजाया० धेम स्वाहा धात्र इ० । ॐधाता ददातु नो रयिं प्रा० धसः स्वाहा धात्र ३० । ॐ धाता ददातु दा० मोषाः स्वाहा धात्र इ० । इति चतस्र आहुती त्वेमं मे वरुणेत्यङ्गन्होमजयाग्रुपोमादि संस्थाजपान्तं कृत्वा निवृदनहोमं पुण्याहादिषाचनं च विधाय प्रजापतिः मीयतामिति वदेत् । ततोऽपरेणानि स्नातां शुद्धवस्त्रादिभिरलंकृतां भार्या मामुखीमुपघेश्य ' वृषाऽसि ' इति तस्या दक्षिणहस्त आसादित यवं वितुषं प्रार्थ निदधाति · आण्डौ स्थः' इति तस्याभित आसादितौ द्वौ सर्वपो स्थापयति । सकुदेव मन्त्रः । श्वात्तत् ' इति यवसपोपर्यासादितं गोदधिद्रप्स प्रक्षिपति । दध उपरिस्थो घनीभूतोऽशो गुप्सपदार्थः । ततस्तूष्णी माशयति । तत अभिष्ट्वाऽहं दशभिरभिमशामि दशमास्याय सूतवै' इति कुतशुदाचमनायास्तस्या उदरं हस्ताभ्यामभिमृशति । ततो घृतसंमिश्रमासादितं वटाकुररसं पूर्वोक्तकृमिचूर्णरसं वा कृतस्वोरुमूलोपधानाया भायाया दक्षिणनासिकाछिद्रे प्रवेशयेत् । ततोऽनि संपूज्य ब्राह्मणभोजने भूयसीदानं च विधाय कर्मसाद्गुण्याय विष्णुं संस्मरेत् । इति पुंसवनप्रयोगः॥ अथ गर्मिण्या गर्भसाबहरोपायः । तत्रेदं गृह्यम्---' यदि गर्भः सवेदाइँणास्याः पाणिना विरूवं नाभेरुन्मादि पराश्वं त्वा नाश्चिं त्वष्टा बध्नातु बन्धने। स ऋतूनुपवेश्य दशमासो अवीरहेति'। यदि गर्भः स्ववेत्तदा सस्या नाभेरू यो देशो गर्भावस्थितियोग्यस्तं स्वेन पाणिना पराञ्चं स्वेति मन्त्रेण निरुत्माटि ऊोपवर्ग संमृजीतेत्यर्थः । सकृदेव मन्त्रः । औषधमपि-पीत्वा तण्डुलतोयेन तण्डुलीयजटा ऋतौ । पतद्गर्भा च या नारी स्थिरगर्भा मजायते ।। Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034602
Book TitleSanskar Paddhati
Original Sutra AuthorN/A
AuthorBhaskar Shastri, Sudev Shastri
PublisherVinayak Ganesh Apte
Publication Year1924
Total Pages262
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy