________________
संस्कारपद्धतोततो मुखहस्तपादाम्प्रक्षाल्य द्विवारमाचम्याऽऽसन उपविश्य पर्षदुपदिष्टचतुर्दशकृच्छात्मकप्रायश्चित्तमाचरेत् । द्रव्यदानस्य प्रत्याम्नायत्वपक्षे कृच्छ्रसंख्याकगोनिष्क्रयद्रव्यग्रे निधाय तत्संपूज्य विमान्संपूज्य पर्षदुपदिष्टचतुर्दशकृच्छ्रसंख्याकगोनिष्क्रयद्रव्यं नानानामगोत्रेभ्यो ब्राह्मणेभ्यो दातुमहमुत्सृज्य इति दद्यात् । ततः पूर्ववव्याहृतिहोमविष्णुपूजन विष्णुश्राद्ध गोदानानि कुर्यात् । नात्र पञ्चगव्यहोमः। ततो गवे ग्रासं दत्त्वा शक्तौ सत्यां गोभूतिलहिरण्याज्यवस्खधान्यगुडरौप्यलवणात्मकानि दश दानानि सदक्षिणानि पूजनपूर्वकं विप्रेभ्यो दत्त्वा मया यत्कृतं प्रायश्चित्तं तदच्छिद्रमस्त्विति भवन्तो ब्रुवन्त्विति विप्रान्मार्थयेत् । ततस्तैरच्छिद्रमस्त्विति प्रत्युक्ते फर्मसाद्गुण्याय विष्णु संस्मरेत् ।
इह जन्मनि चेत्साक्षाद्वधे विप्राय लोहदण्डं दद्यात् । तस्य प्रयोगःदेशकालौ संकीर्य ममैतजन्मकृतसर्पवधजनितदोषपरिहारार्थमिमं लोह. दण्डं निष्क्रयद्रव्य वाऽमुकशर्मणे ब्राह्मणाय तुभ्यमहं संप्रददे न ममेति विप्रहस्ते जलसहितं दत्त्वा कृतस्य लोहदण्डदानस्य संपूर्णतासिद्धय इमां दक्षिणां संप्रदद इति दक्षिणा दत्वाऽनेन लोहदण्डदानेनानना: मीयतां न ममेति वदेत् ।।
अथ दशदानमन्त्राः। गवामङ्गेषु तिष्ठन्ति भुवनानि चतुर्दश । यस्मात्तस्माच्छिवं मे स्यादिह लोके परत्र च ।। इति गोः। सर्वसस्या च या भूमिर्वराहेण समुद्धता । अनन्तसस्यफलदा मम शान्ति प्रयच्छतु ।। इति भूमेः। तिलाः पापहरा नित्यं विष्णुदेहसमुद्भवाः । तिलदानेन सर्व मे पापं नाशय केशव ।। इति तिलानाम् । . हिरण्यगर्भगर्भ• मम शान्ति प्रयच्छतु । इति हिरण्यस्य । कामधेनोः समुद्भुतं देवानामुत्तमं हविः ।। आयुर्विवर्धनकरमाज्यं पातु सदैव माम् । इति आज्यस्य । . शरण्यं सर्वलोकानां लज्जाया रक्षणं परम् । मुपधारि वस्त्र त्वं सदा शान्ति प्रयच्छ मे ।। इति वस्त्रस्य । धन्यं करोति दातारमिह लोके पस्त्र च ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com