________________
नागबलिमयागः ॥
9
या यक्ष्यमाणा देवतास्ताः सर्वाः परिग्रहीष्यामि । प्रथमया व्याहृत्याऽग्निं सप्तभिराज्याहुतिभिः, द्वितीयया व्याहृत्या वायुं सप्त- राज्याहुतिभिः, तृतीयया व्याहृत्या सूर्य सप्तभिर ज्याहुतिभिः समाहृतिभिः प्रजापति सप्तभिराज्याहुतिभिर्यक्ष्ये । पञ्चगव्यहोमे - अग्निमेकया पञ्चतन्याहुत्यः सोममच्या पञ्चग० विष्णुं तिसृभिः पञ्चग० रुद्रमेक० । अत्रोदक स्पशः । सवितारमे० ब्रह्मैकः परमात्मानं प्रणवेन चतुर्थभागेन यावत्य आहु यो भवन्ति तावतीभिराहुतिभिर्यक्ष्ये । एता देवताः सद्यो यक्ष्य इत्युक्त्वा समिधोऽग्रावाधायानिं परिस्तीर्योत्तरेणात्रिं दर्भान्संस्तीर्य तेषु दव सप्त पत्रात्मकान्हरितान्कुशानाज्यस्थाली पञ्चगव्यार्थ ताम्रपात्रं प्रोक्षणीपात्रमुपवेषं संमार्गदर्भानवज्वलनदर्भान्वहिरेकां समिधमाज्यं पञ्चगव्यानीत्यासाद्य पवित्रे कृत्वा प्रोक्षणीः संस्कृत्य पात्राणि पञ्चगव्यानि च प्रोक्ष्य दव सप्तपत्रात्मकान्कुशांश्च संमृज्य तत्तन्मन्त्रैः पञ्चगव्यानि पवित्रान्तर्हिते ताम्रपात्र एकीकृत्य देवस्य त्वेति सप्तसंख्यैः कुशैरुदकं तस्मिन्त्रावयित्वाऽऽपो हि ष्ठेति त्रिभिर्मन्त्रैरालोडयेत् ।
४५
तत आज्यविलापनादि । आज्यपर्यग्निकरणकाले पञ्चगव्यस्यापि पर्यनिकरणम् । पवित्राभ्याघानान्तेऽग्नेः पञ्चाद्वहिंरास्तीर्य तत्राऽऽज्यस्थाली पञ्चगव्यपात्रं च निधाय तदुत्तरतो दर्दी सप्तपत्रात्मकान्कुशांश्च निधायादितेऽनु० इति परिषिच्याऽऽसादितां समिधं तूष्णीमभ्याधाय दर्व्या सप्तवारमावृत्ताभिर्व्यस्ताभिः समस्ताभिर्व्याहृतिभिराज्याहुतीजुहुयात् ।
>
ततः सप्तपत्रात्मकान्कुशानादाय तैरुद्धत्योद्धृत्य जुहोति । ॐ अग्नये स्वाहा अग्नय इ० । ॐ सोमाय स्वाहा सोमाये । ॐ इरावती० खैः स्वा० विष्णव इ० । ॐ इदं विष्णु० रे स्वा० विष्णव इ० । ॐ विष्णोर्नुकं० गाय स्वा० विष्णव इ० । ॐ मा नस्तोके० ते स्वा० रुद्रायेदं० | अप उपस्पृश्य । ॐ तत्सवि० यात्स्वा० सवित्र इ० । ॐ ब्रह्म ज० वः स्वा० ब्रह्मण ३० । ॐ स्वाहा, इति प्रणवेन यावतीभिराहुतिभिश्चतुर्थभागहोमो भवति तावतीराहुतीस्तैः कुशैरेव जुहुयात् । परमात्मन ३० ।
ततोऽवशिष्टपञ्चगव्यं प्रणवेनाऽऽलोड्य प्रणवेनाभिमन्त्रय व्रतग्रहणं करिष्य इति द्विजान्पृष्ट्वा कुरुष्वेति तैरनुज्ञात आसनाद्वहिरुपविश्य प्रणबेन सर्वं पिबेत् ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com