________________
संस्कारपद्धतौ
ततोऽनुवादको मुशर्मणा त्वयेह जन्मनि जन्मान्तरे वा ज्ञानादज्ञानाद्वा कृतेन सर्पत्रधेन जनितस्य दोषस्य परिहारार्थं पर्षदुपदिष्टचतुदेशकृच्छ्राचरणपूर्वकं यथाविधि सर्पसंस्कारं कृत्वा त्वं शुद्धो निरुपद्रवो भविष्यसीत्युपदेश त्रिः ( दिशेधिः) । ततः कर्ता, ओमित्यङ्गीकृत्य पर्षदं नमस्कृत्य विसर्जयेत् । अनुवादकं च । तत आचम्य प्राणानायम्य देशकालौ संकीर्त्या मुशर्मणा मयेह जन्मनि जन्मान्तरे वा ज्ञानाज्ञानावा कृतेन सर्पवधेन जनितस्य दोषस्य परिहारार्थं पर्षदुपदिष्टचतुर्दशकृच्छ्रात्मकं प्रायश्चित्तममुकप्रत्यान्नायद्वारा करिष्य इति संकल्प्य
१४
यानि कानि च पापानि ब्रह्महत्यासमानि च । केशानाश्रित्य तिष्ठन्ति तस्मात्केशान्वपाम्यहम् ॥ इति शिखाकक्षेोपस्थवर्जे केशनखरोमाणि वापयित्वा आयुर्बलं यशो वर्चः प्रजाः पशुवमूनि च । ब्रह्म मज्ञां च मेधां च त्वं नो देहि वनस्पते ॥ इति वनस्पतिं प्रार्थ्यं तस्मात्मादेशमात्रं काष्ठं गृहीत्वा मुखदुर्गन्धिनाशाय दन्तानां च विशुद्धये । ष्ठीवनाय च गात्राणां कुर्वेऽहं दन्तधावनम् ॥
इति तेन काष्ठेन दन्तान्संशोध्य द्वादश गण्डूषान्कृत्वा वक्ष्यमाणोत्सर्जनरीत्या भस्मगोमयमृत्तिकास्नानानि विधाय पञ्चगव्यैः कुशोदकेन `च तत्तन्मन्न्त्रैः स्नानं कृत्वाऽऽयो हि ष्ठेति त्रिभिर्मन्त्रैः शुद्धोदकेन स्नात्वा स्नानविधिना स्नानं कुर्यात् । कर्ता जीवत्पित्रादिकश्चेत्तदा केशसंरक्षणार्थे पूर्वोक्तं प्रायश्चित्तं द्विगुणं कुर्यात् । ततो विष्णुपूजन विष्णुश्राद्धगोदानव्याहृतिहोमपञ्चगव्य होमान्कुर्यात् ।
तत्र विष्णुपूजनमिदं विष्णुरिति मन्त्रेण । विष्णुश्राद्धसिद्ध्यर्थं विमानाहूय संपूज्य तेभ्यश्चत्वार्यामान्नानि दद्यात् । जीवत्पितृकस्य तु न विष्णुश्राद्धम् । ततो विप्रं गां च संपूज्य तस्मै यथाविभवकल्पितोपस्कारसहितां गां दद्यात् । गोरभावे तन्मूल्यं वा ।
ततो व्याहृतिहोमः — कर्ताऽऽचभ्योल्लेखनादिसंस्कृत आयतने लौकिकम प्रतिष्ठाप्य प्रज्वाल्य ध्यात्वा समिश्रयमादाय श्रद्धं एहीत्यादि प्राणायामान्तं कृत्वा सर्प संस्काराधिकारार्थप्रायश्चित्ताङ्गन्भूत होमकर्मणि
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com