________________
नागवलिप्रयोगः।
तूष्णीं कृत्वा विष्णवे ब्रह्मणे शिवाय सपरिवाराय यमाय च नाममन्त्र. चतुरः पिण्डान्दत्वा विष्णोऽयं ते पिण्ड इति विष्णुरूपं प्रेतं ध्यायन्पश्चमं पिण्डं दत्त्वाऽर्चनादिप्रवाहणान्तं तूष्णीं कृत्वाऽऽचान्तान्ब्राह्मणान्दक्षि. णया संतोष्य ते कस्मै गुणवते प्रेतबुद्धया वस्त्राभरणगोहिरण्यादि दत्वैकपक्षे तस्मा एव दत्त्वा भवन्तः प्रेताय तिलोदकाञ्जलिदानं कुर्वन्त्यिति वदेत् । ते च पवित्रपाणयः सफुशतुलसीपत्रतोयाञ्जलि प्रेताय काश्यपगोत्रायामुकशर्मणे विष्णुरूपिणेऽयं तिलतोयाञ्जलिरिति दयः। ततो ब्राह्मणान्वाचयेत् , अनेन नारायणपलिकर्मणा भगवान्विष्णरिम प्रेस शुद्धमपापमह करोत्विति । ततो विप्रास्तथाऽस्त्विति प्रत्यूचुः (प्रतिब्रूयुः )। ततः कर्ता स्नात्वा भुञ्जीत ।
इति नारायणवलिप्रयोगः ।
-
अथ नागबलिप्रयोगः । गुरुशुक्रास्तादिरहिते कालेऽयनद्वयेऽपि पौर्णमास्याममावास्यायां पञ्चम्यामाश्लेपायुक्तदिने वा कुर्यात् । तत्राधिकारार्थ चतुर्दशकृच्छ्रात्मकं प्रायश्चित्तं चरेत् । तस्य प्रयोगः-- उक्तदिनात्पूर्वथुस्तदहरेव वा समस्तसंपदिति पर्षदं प्रदक्षिणीकृत्य नस्वा सदग्रे निष्कं तदर्ध वा निधायामुकशर्मणा मयेह जन्मनि जन्मान्तरे वा ज्ञानादज्ञानाद्वा कृतेन स.पंवधेन जनितस्य दोषस्य परिहारार्थमनुग्रहं कृत्वा प्रायश्चित्त. मुपदिशन्तु भवन्त इति प्रार्थयेत् । ते चोपदिशाम इति प्रतिघ्रयुः । ततः कर्ता
सर्वे धर्मविवेत्तारो गोतारः सकला द्विजाः । मम देहस्य संशुद्धिं कुर्वन्तु द्विजसत्तमाः ।। मया कृतं महाघोरं ज्ञातमज्ञातकिल्बिषम् । प्रसादः क्रियता मह्यं शुभानुज्ञा प्रयच्छथ ।। . पूज्यैः कृतः पवित्रोऽहं भवेयं द्विजसत्तः । इति श्लोकान्पठित्वा मामनुगृहन्तु भवन्त इति पर्षदं प्रणमेत् ।
सतः फर्ता निबन्धपूजनं पर्षपूजनमनुवादकपूननं च कुर्यात् । अनुवादकाय भृतिरूपां यथाशक्ति दक्षिणां दद्यात ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com