________________
गर्भाधानम् ।
कृतां सुगन्धां त्रिरात्रव्रतेनाल्पभोजनेन वा कृशां शिष्टब्राह्मणसंभाषां शय्यामारूढां स्वयमपि तथैव भूत्वाऽऽचम्य निवीती भूत्वा शिखां विस्रस्य
"
विष्णुर्योनिं कल्पयतु त्वष्टा रूपाणि विशतु । आसिञ्चतु प्रजापतिर्घाता गर्भ दधातु ते ।। गर्भ धेहि सिनीवालि गर्भं धेहि सरस्वति । गर्भे तेऽश्विनावुभावाधत्तां पुष्करस्रजा ॥ हिरण्ययी अरणीयं निर्मन्थतोऽश्विना । तं ते गर्भ हवामहे दशमे मासि सूतवे ॥ यथाऽग्निगर्भा पृथिवी द्यौर्यथेन्द्रगर्भिणी । वायुर्यथा दिशां गर्भ एवं गर्भे दधामि ते ।। यस्य योनिं प्रति रेतो गृहाण पुमान्पुत्रो जायतां गर्भो अन्तः । तं माता दशमासो बिभर्ति स जायतां वीरतमः स्वानाम् ॥ आ ते गर्भो योनिमेतु पुमान्बाण इवेषुधिम् ।
आ वीरोऽत्र जायतां पुत्रस्ते दशमास्यः ।। करोमि ते प्राजापत्यमागर्भे योनिमेतु ते । अनूनः पूर्णो जायतामनन्योऽश्लोणोऽपिशाचधीरः ॥ यानि प्रभूणि वीर्याण्यृषभा जनयन्तु नः । तैस्त्वं गर्भिणी भव स जायतां वीरतमः स्वानाम् ॥ सा प्रमूर्धेनुगा भव ।
४१
इत्येतैः सुरतार्थ समीपमाहयेत् । ततस्तां दीपसमीप एव वामभागे शय्यायां शाययित्वा,
ॐ सं नाम्नः सर हृदयानि सं नाभिः सं त्वचः । सं त्वा कामस्य योक्त्रेण युञ्जाम्यविमोचनाय ॥ इति सुरतं करोति ।
ॐ चाक्रवाकः संवननं यन्नदीभ्य उदाहृतम् । यो देवगन्धर्वस्तेन संवनिनौ रखके ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com