________________
संस्कारपद्धतीगच्छ गच्छ सुरश्रेष्ठ स्वस्थाने परमेश्वर ।
यत्र ब्रह्मादयो देवास्तत्र गच्छ हुताशन । इति विसृजेत् । अथ यजमानः कांस्यपात्रगताज्ये सकुटुम्बः स्वप. तिरूपमवेक्ष्य
आज्यं तेजः समुद्दिष्टमाज्यं पापहरं स्मृतम् । आज्यं सुराणामाहार आज्ये लोकाः प्रतिष्ठिताः ।। अलक्ष्मीर्या यच्च दौस्थ्यं मम गात्रेष्ववस्थितम् ।
तत्सर्व क्षपयाऽऽज्य त्वं लक्ष्मी पुष्टिं च वर्धय ।। इति पठित्वा तदाज्यं सदक्षिणं ब्राह्मणाय दद्यात् । ततो यावत्यः मधानाहुतयस्तावतो ब्राह्मणान्भोजयेत् । यावन्ति तदाहुतिशतानि तावतो वा यथा संभवं वा । ततो यस्य स्मृत्यति विष्णुं स्मरेत् । ततो भुक्तवद्भ्यो यथाविभवं दक्षिणां दत्त्वा क्षमाप्य तदाशिषो गृहीत्वा प्रणिपत्यानेन ग्रहमखाख्येन कर्मणाऽऽदित्यादयो ग्रहाः प्रीयन्तां न ममे. तीश्वरार्पणं कृत्वा दृष्टमनाः सुहृयुक्तो भुञ्जीत ।
इति ग्रहमखायोगः।
अथ गर्भाधानप्रयोगः । सत्र रजोदर्शने सति त्रिरात्रं रजस्वला स्त्री, अञ्जनाभ्यञ्जननित्यस्नानादीनि वर्जयेत् । त्रिरात्रमशुचिस्तिष्ठेत् । प्रथम? तु हरिद्रागन्धमाल्यादिधारणे ताम्बूलभक्षणे च च दोष इति विशः । अन्यत्समानम् । स्मार्तगायोः कर्मणोः पञ्चमेऽहनि स्नाताःधिकारिणी भवति । श्रौते कर्मणि चतुर्थेऽइन्यपि स्नाताऽधिकारिणी । कर्ता रजोनिवृत्तौ सत्यां चतुर्थ्याधुक्ततिथ्यादिषु गर्भाधानं कुर्यात् । कर्ता ज्योतिर्विलोक्ते सुमु.. हूर्ते प्रातः कृतनित्यक्रियः सभार्य आचम्य प्राणानायम्य देशकालो संकीर्त्य ममैतद्भार्याधिकरणजनिष्यमाणसर्वगर्भसंस्कारातिशयसिद्धिवी.. जगर्भसमद्भवैनोनिवणक्षेत्रसंस्कारसिद्धिद्वारा श्रीपरमेश्वरीत्यर्थमस्यां गर्भाधानं करिष्य इति संकल्प्य तदङ्गं गणपतिपूजनं पुण्याहवाचनं मातृकापूजनं नान्दीश्राद्धं चोक्तरीत्या कुर्यात् । अत्र ब्रह्मा प्रीयतामिति विशेषः । ततो रात्रौ यथोक्तशय्यां परिकल्प्य वस्खादिनानाभूषणैरलं..
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com