________________
अहमखः । त्वं पुरा सागरोत्पन्नो विष्णुना विधृतः करे ।। पाञ्चजन्य प्रदास्यामि यतः शान्ति प्रयच्छ मे ॥२॥ धर्मस्त्वं वृषरूपेण जगदानन्दकारकः । अष्टमूर्तेरधिष्ठानमतः शान्ति प्रमच्छ मे ॥ ३ ॥ हिरण्यगर्भगर्भस्थं हेमबीजं विभावसोः । अनन्त पुण्यफलदमतः शान्ति प्रयच्छ मे ॥४॥ पीतवस्त्रद्वयं यस्माद्वासुदेवस्य बल्लभम् । प्रदानात्तस्य मे विष्णुः सदा शान्ति प्रयच्छतु ॥ ५॥ विष्णुस्त्वमश्वरूपेण यस्मादमृतसंभवः । चन्द्रार्कवाहनं नित्यमतः शान्ति प्रयच्छ मे ॥६॥ यस्मात्त्वं पृथिवी सर्वा धेनो वै कृष्णसंनिभे । सर्वपापहरा नित्यमतः शान्ति प्रयच्छ मे ॥ ७॥ यस्मादायस कार्याणि त्वदधीनानि सर्वदा । लाङ्गलाद्यायुधादीनि तस्माच्छान्ति प्रयच्छ मे ॥ ८॥ सुप्रतीक गजेन्द्र (वं देवेद्रस्य च वाहनम् ।
दानेनानेन दत्तेन सदा शान्ति प्रयच्छ मे ॥ ९ ॥ छागपक्षे
यस्मात्वं छाग यज्ञानामङ्गत्वेन व्यवस्थितः ।
यानं विभाव सोनित्यमतः शान्ति प्रयच्छ मे ॥ १० ॥ उक्तदक्षिणानामभावे सर्वेभ्यो ब्राह्मणेभ्यो हिरण्यं दद्यात् । सर्वेषु पोवाचार्याय द्विगुणं दद्यात् । कर्मणः साहुण्यार्थमन्येभ्यो ब्राह्म. भ्यो भूयसी दद्यात् ।
ततो ग्रहपीठदेवतानां यजमानः पञ्चोपचारैरुत्तरपूजनं विधाय सप्रणवै. स्तत्तन्नाममन्त्रैरादित्यादिदेवताभ्यो नम इति समदितरूपेण वा पुष्पाञ्जलिं समर्पयेत् । तत आचार्यों ग्रहपीठदेवतानामुद्रासनमुत्तिष्ठेति मन्त्रेण कुर्यात् । ततो यजमानः, इदं ग्रहपीठं सप्रतिमं सकलशं सोपस्करमाचार्याय तुभ्यमहं संप्रदद इत्यार्चाय समर्पयेत् । तत आचार्योऽमि संपूज्य
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com