________________
૧૮
संस्कारवद्धनौ
विषमस्थानसंभूतां पीडां दहतु ते विधुः ॥ २ ॥ भूमिपुत्रो महातेजा जगतां भयकृत्सदा । दृष्टिकृद्वृष्टिर्ता च पीडां दहतु ते कुजः || ३ || उत्पातरूपो जगतां चन्द्रपुत्रो महाद्युतिः । सूर्यमियकरो विद्वान्पीडां दहतु ते बुधः ॥ ४ ॥ देवमन्त्री विशालाक्षः सदा लोकहिते रतः । अनेक शिष्यसंपूर्णः पीडां दहतु ते गुरुः ।। ५ ।। दैत्यमन्त्री गुरुस्तेषां प्राणदश्च महामतिः । प्रस्ताराग्रहाणां च पीडां दहतु ते भृगुः ॥ ६ ॥ सूर्यपुत्रो दीर्घदेहो विशालाक्षः शिवप्रियः । मन्दचारः प्रसन्नात्मा पीडां दहतु ते शनिः ॥ ७ ॥ महाशिरा महावक्त्रो दीर्घदंष्ट्रो महाबलः । अतनुवोर्ध्वकेशश्च पीडां दहतु ते तमः ॥ ८ ॥ अनेकरूपवर्णश्च शतशोऽथ सहस्रशः ।
उत्पातरूप जगतः पीडां दहतु ते शिखी ॥ ९ ॥ इति मन्त्रैर्देवस्य खेत्यादिभिर्मन्त्रैश्चाभिषिश्चेत् ।
अभिषेकानन्तरं तैलाभ्यङ्गादिपूर्वकं सुनाता दम्पती अभिषेकवासांसि परित्यज्याहतवासांसि परिधाय चन्दनाद्यलंकारांश्च धृत्वाऽग्रेः पश्चादुपविशतः । तत आचार्येण सह यजमानो मा नस्तोक इति विभूतिधारणं कृत्वाऽऽचार्यादीन्संपूज्य दक्षिणां दद्यात् । तत्राऽऽचार्याय गौः । ब्रह्मणेऽनडुान् । सदस्यायाश्वः । सूर्यप्रीत्यर्थं कपिला गौः १ । सोमप्रीत्यर्थं शङ्खः २ । अङ्गारकमीत्यर्थ रक्तोऽनङ्गान् ३ । बुधप्रीत्यर्थं सुवर्णम् ४ । बृहस्पतिप्रीत्यर्थं पीतं वासः ५ । शुक्रप्रीत्यर्थं श्वेतोऽश्वः ६ । शनिप्रीत्यर्थं कृष्णा गौः ७ । राहुप्रीत्यर्थं कालायसम् ८ | केतुप्रीत्यर्थं हस्ती छागो वा ९ इति तत्तद्धोमकर्त्रे व्यवस्थया तां तां दक्षिणां दद्यात् । यदि नवभ्योऽधिका ऋत्विजस्तदा तेभ्यः प्रत्येकमेकैका गौर्दया । न्यूनत्वे तु गोशङ्खादयो नव दक्षिणा यथासंभवं तेभ्य एव देयाः ।
अथ गवादीनां मन्त्राः—
कपिले सर्वदेवानां पूजनीयाऽसि सर्वदा । सर्वदेवमयी यस्मादतः शान्ति प्रयच्छ मे ॥ १ ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com