________________
ग्रहमखः ।
समः - ऋत्विज उदङ्मुखाः प्राङ्मुखा वोपविश्य द्विराचम्य साबधानमनसो भवेयुः । ततो यजमान इमान्युपकल्पितानि हवनीयद्रव्याणि अन्वाधानोद्दिष्टसंख्यापर्याप्तानि या या यक्ष्यमाणा देवतास्ताभ्यस्ताभ्यो मया परित्यक्तानि न ममोते द्रव्यत्यागं कुर्यात् । तत ऋत्विज आवाहनोत तत्तन्मन्त्रैरन्वाधानोद्दिष्टैर्द्रव्यैरन्वाधानोक्त संख्यं होमं कुर्युः । तत्र चरुसमिद्धोमकर्तारः स्वस्वदक्षिणहस्तं निष्टप्य वामहस्तेन संमृज्य पुनर्निष्टप्य दक्षिणहस्तेनैव स्वस्व संमार्गदर्भप्रहरणं कुर्युः । अत्र चरुश्रपणासंभवे गृहसिद्धानेन देवपवित्र संस्कारसंस्कृतेन होम इति संप्रदायः । अर्कः पलाशः खदिरोऽपामार्गः पिप्पल उदुम्बरः शमी दूर्वाः कुशा इति क्रमेण ग्रह समिधः । एतासामलाभे पलाशसमिधः । तत्र समिदेकैका होतव्या । दुर्वाणां दर्भाणां च त्रिकं त्रिकम् | आज्यं दन्यैव होतव्यम् । अङ्गुष्ठाग्रेण चरुं ग्राप्तमात्रं निष्पीड्य संहताङ्गुलिनोतान दक्षिणेन हस्तेन होतव्यः । समाप्ते प्रधानहोम आचार्यो मण्डलदेवतापक्षे मण्डलदेवताहोमं कृत्वा स्थापितदेवतानामुत्तरपूजनं विधाय प्रसीदन्तु भवन्त इति तान्संप्रार्थयेत् । ततः सपत्नीको यजमानोऽनेः पश्चादुपविश्याग्न्यायतनस्य समन्तादिक्षु सदीपमापभक्तबलीन्दिक्पालेभ्यो दद्यात् । प्रतिबलिसमर्पणं साक्षतं जलं क्षिपेत् । ॐ त्राता० विन्द्रः । इन्द्राय साङ्गाय सपरिवाराय सायुधाय सशक्तिकायामुं सदीपं माषभक्तबालें समर्पयामीति साक्षतं जलं त्यक्त्वा भो इन्द्र बलिं भक्ष दिशं रक्ष मम सकुटुम्बस्याऽऽयुष्कर्ता क्षेमकर्ता शान्तिकर्ता पुष्टिकर्ता तुष्टिकर्ता निर्विघ्नकर्ता वरदो भव इति प्रार्थयेत् । ॐ अग्ने॑ नय सु० | अग्नये सा० यामि । भो अग्ने ब० भव । ॐ इमं यम० स्व० यमाय सामि । भो यम ब० भव । असुन्वत० मस्तु । निर्ऋतये सा० यामि । भो निर्ऋ० ब० । तत्त्वा या० षीः । वरुणाय सा० मि । भो वरुण० व आ नो० नः । वायवे सा भो वायो० व । सं ते० थ्व | सोमाय सा० मि । भोः सोम० व० । अभि० हे | ईशानाय सा० भो ईशान ० ० व ।
ततो ग्रहादिवलयो ग्रहपीठसमीपे ॐ आस० न् । सूर्याय सा० सशक्तिकायेश्वराग्निरूपाधिदेवताप्रत्यधिदेवतांसहितायेमं सदीपं माष० मि | भोः सूर्य, इमं बलिं गृहाण मम सकु० भवेति प्रार्थयेत् । ॐ आप्याय
Shree Sudharmaswami Gyanbhandar-Umara, Surat
३५
www.umaragyanbhandar.com