SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ संस्कारपद्धती — त्वयि तिष्ठन्ति भूतानि त्वयि माणाः प्रतिष्ठिताः ॥ शिवः स्वयं त्वमेवासि विष्णुस्त्वं च प्रजापतिः । आदित्या वसवो रुद्रा विश्वे देवाः सपैतृकाः ।। त्वयि तिष्ठन्ति सर्वेऽपि यतः कामफलप्रदाः । त्वत्प्रसादादिमं यज्ञं कर्तुभी हे जलोद्भव | सांनिध्यं कुरु देवेश प्रसन्नो भव सर्वदा ॥ इति संप्रार्थयेत् । ततः- आपोहिष्ठा० ३ हिरण्यवर्णा: ० ४ पत्रमानः सु० १७ इति कुम्भमभिमृश्य जपेत् । - " अथान्वाधानम् — आचार्यः समिश्रयमादाय श्रद्ध एहत्यिादि प्राणायामान्तं कृत्वा ग्रहयज्ञहोमकर्मणि या यक्ष्यमाणा देवतास्ता इत्यादि व्याहृत्यन्तमुक्त्वा गणपतिमेकया चर्चाहुत्याऽऽज्यादुत्या वा यक्ष्य इति बदेत् । वैशेषिकप्रधान होमे — सूर्य सोममङ्गारकं बुधं बृहस्पति शुक्रं शनैश्वरं राहु केतुम् अमुकसंख्याकाभिर्यथायथमर्कादिसमिद्भिर्वाहुतिमिराज्याहुतिभिव, ईश्वरम्, उमां स्कन्दं नारायणं ब्रह्माणम्, इन्द्रं यमं कालं चित्रगुप्तम्, अग्निम्, अपः, भूमिं विष्णुम्, इन्द्रम्, इन्द्राणीं प्रजापति सर्पान्ब्रह्माणम्, अमुक संख्याकाभिर्यथायथमर्कादिसमिद्भिश्चर्वाहुतिभि राज्याहुतिभिश्च, गणपतिं दुर्गा वायुम्, आकाशम्, अश्विनौ वास्तोष्पर्ति क्षेत्रपालम् इन्द्रम्, अग्निं यमं निर्ऋतिं वरुणं वायुं सोमम्, ईशानम्, अमुकसंख्याकाभिः पलाशसमिद्भिश्वर्वाहुतिभिराज्याहुतिभिश्च मण्डलदेवतापक्षे मण्डलदेवताः प्रत्येकमेकैका हुत्या यक्ष्ये । अधिमत्यधिदेवतानां प्रधानदशांशेनेतरदेवतानां विंशांशेन वा होमः कार्यः । पात्रासादनकाले दर्व्यासादनोत्तरं बहूनां चरूद्धरणपात्राणां स्रुवाणामाज्यस्थालीनां च बहीनामासादनं प्रोक्षणं च कार्यम् । स्थालीपाकधर्मेण चरुं श्रपयित्वा युगपदनेककर्तृकचर्वाज्यहोमनिर्वाहाय सर्वेषां खुत्राणां संमार्गः कार्यः । स्रुवस्थाने दयों वा । तासामपि संमार्गः । पर्यनिकरणकाले सर्वैर्होमद्रव्यैः सहाssज्यस्य पर्यग्निकरणम् । ततः शृतं चरुमभिघार्योत्तरत उद्वास्य वर्हिष्यासाद्य तत्रैवाऽऽसादितेषु चरूद्धरणपात्रेषूद्धृत्य यथादैवतं विभज्य परि षेकादि व्याहृतिहोमान्तं कृत्वा गणानां त्वेति मन्त्रेण पलाशसमिच्चर्वाज्यानामेकैकामाहुतिमाचार्य एत्र जुहुयात् । गणपतय इदं न ममेति यजमानस्त्यागं कुर्यात् | Shree Sudharmaswami Gyanbhandar-Umara, Surat 9 www.umaragyanbhandar.com
SR No.034602
Book TitleSanskar Paddhati
Original Sutra AuthorN/A
AuthorBhaskar Shastri, Sudev Shastri
PublisherVinayak Ganesh Apte
Publication Year1924
Total Pages262
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy