________________
ग्रहमखः। कृष्णवखागरुचन्दनशविनीपुष्पलाक्षाधूपघृतदीपारक्तपिष्टयुतलवणमिश्राजाक्षीरयुततिलतण्डुलमिश्रितोदनदाडिमफलानि । एतेषां यथोक्तपदार्थानामलाभे तु यथासंभवमुपचाराः कल्पनीयाः । अधिदेवताप्रत्य. धिदेवतानां चैव एवोपचाराः । मणपत्यादिषु तु श्वेतमेव चन्दनं शतपत्राण्येव पुष्पाणि, तदभावे श्वेतपुष्पम् । धृपः स एव । गोघृवदीपो घृतौदननैवेद्यमिति ।
ततः पीठादेशान्यामुदीच्यां वा मही द्यौरिति भूमि स्पृष्ट्वा तत्र रङ्गव. ल्लीपचं विधायौषधयः संवदन्त इति प्रस्थपरिमितधान्यपुञ्ज तत्र कृत्वा तत्राऽऽजि त्यनेन नवमत्रण तैजसं मृन्मयं वा चन्दनेनानुलिस दध्यक्षत. पुष्पमालायलंकृतं कुम्भं संस्थाप्यमं म इत्युदकेन पूरयित्वा, ॐ आप्यायस्व० गथे । इति कलशे क्षीरं प्रक्षिप्य, ॐ दधि० षत् । इति दधि । ॐ शुक्रम० जोऽसि । इत्याज्यम् । ॐ मधु वाता तु नः। इति मधु । ॐ स्वे क्रतुम० योऽधि । इति शर्कराम् । ॐ तत्स० यात् । इति गोमूत्रम् । ॐ गन्धद्वारा०श्रियम् । इति गोमयम् । पुनराप्यायस्वेत्यादि. भित्रिभिः क्षीरदधिघृतानि कलशे प्रक्षिप्य नूतनाहृतचित्रपर्वतधातूंस्तूष्णी प्रक्षिप्य, उद्धृताऽसि० कृतम् । इति कलशेऽश्वशालागजशालावल्मीकनदीसंगमहृदराजद्वारगोष्ठप्रदेशाहृवाः सप्त मृत्तिकाः प्रक्षिप्य गन्धद्वारामित्यादिभिर्गन्धादीरत्नान्तानुपचारान्प्रक्षिप्य, ॐ या जाता० सप्त च । इति कुष्ठमांसीहरिद्राद्वयमुराशेलेयचन्दनसटीचम्पकमुस्तात्मिका दशौ. षधीः कलशे निक्षिपेत् । कुष्ठं कोष्ठम् । मांसी जटामांसी । मुरा मोरवेल इ० प्र० शैलेयं शिलारसः। सटी कचोरः । चम्पकस्तवृक्षत्वक् । मुस्ता नागरमोथा, इति प्र०। एतासामप्यभावे सुवर्ण कलशे प्रक्षिपेत् । ततो दूर्वाम्रपल्लवैः कलशस्य मुखमाच्छाद्य, ॐ युवं वस्त्रा० चेथे । इति कलशं वस्त्रयुग्मेग वेष्टयित्वा पूर्णा दीति तण्डुलपूर्णेन पात्रेण कलशाननं पिधाय तत्र कलशस्य मु० स समु० रकाः । गङ्गे च यमुने. जलेऽस्मिन्सनिधिं कुर्विति देवता आवाह्य संपूज्य वरुणं तत्त्वा यामी. त्यावाहा संपूजयेत् । ततः
देवदानवसंवादे मश्यमाने महोदधौ । उत्पन्नोऽसि तदा कुम्भ विधृतो विष्णुना स्वयम् ।। त्वत्तीये सर्वतीर्थानि देवाः सर्वे त्वयि स्थिताः ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com