SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ ग्रहमखः। चूर्णेन त्रिकोणं भौमस्य पीठमैशान्यां पीतचूर्णेन बाणाकारं बुधस्य पीठमुत्तरस्यां पीतचूर्णेन दीर्घचतुरश्रं गुरोः पीठं पूर्वस्यां श्वेतचूर्णेन पञ्चकोणं शुक्रस्य पीठं पश्चिमाया कृष्णचूर्णेन व्यङ्गलक्षेत्रफलं पडङ्गुलक्षेप्रफलं वा शनेः पीठं नैऋत्यां नीलचर्णेन शूर्पाकारं राहोः पीठं वायव्यां नानावर्णेन चूर्णेन ध्वजाकारं केतोः पीठमेवं पीठानि विधायाग्न्युत्तारणं कुर्यात् । ॐ अश्मभू० स्वस्ति । इत्यनुवाकेन प्रतिमानामन्युत्तारणं कृत्वा पञ्चामृतैः शुद्धोदकेन च प्रक्षाल्य तत्तदिगानना ग्रहप्रतिमाः स्थापयित्वा सूर्यप्रतिमायाः कपोलो स्पृष्ट्वा प्राणप्रतिष्ठां विदध्यात् । ___ अस्य श्रीप्राणप्रतिष्ठामन्त्रस्य ब्रह्मविष्णुमहेषरा ऋषयः । ऋग्यजु:सामानि च्छन्दासि । चिद्रूपा परा प्राणशक्तिदेवता । आं बीजम् । हीं शक्तिः। क्रों कीलकम् । सूर्यप्रतिमायां प्राणप्रतिष्ठापने वि० । ॐ आं ह्रीं क्रय रं लं वं शं षं संहो हंसः सोऽहं सूर्यप्रतिमायाः प्राणा इह प्राणाः। ॐ मां ह्रीं क्रों यं रं लं वं शं ५ सं हों हंसः सोऽहं सूर्य प्रतिमाया जीव इह स्थितः । ॐ आं ह्रीं क्रों यं० सन्द्रियाणि वामनश्चक्षुःश्रोत्रत्व. जिह्वाघ्राणपाणिपादपायूपस्था. इहैवाऽऽगत्य स्वस्तये सुखं चिरं तिष्ठन्तु स्वाहा, इति जपेत् । अस्व प्राणाः प्रतिष्ठन्तु अस्य प्राणाः क्षरन्तु च । अस्यै जीवत्वमर्चाय स्वाहा । इति मन्त्रमुक्त्वा प्रतिमा सजीवां ध्यायेत् । एवं प्राणप्रतिष्ठां विधाय प्रतिमां पञ्चामृतैः संस्थाप्य शुद्धोदकेन स्नापयेत् । तत ॐ उदु त्यं० मूर्यमिति मन्त्रण सुवर्णशलाकया दर्भशलाकया वा गोघृतेन प्रतिमाया दक्षवामनेत्रे मन्त्रावृत्त्या क्रमेणोन्मील्य, ॐ अञ्जन्ति त्वाम० पस्थे । इति मन्त्रावृत्त्या क्रमेण मधुना नेत्र अभ्यज्यो. पहारं निवेदयेत् । नेत्रोन्मीलनमारभ्य प्रतिमायाः पुरतो न तिष्ठेत । एवं सोमादिप्रतिमासूहेन । अथवा सहैव सर्वासां सूर्यादिप्रतिमानामूहन कुर्यात् । ततो ग्रहानावाहयेत् । अ आ सत्येन० श्यन् । भूभु : सुवः, भगवन्ग्रहाधिपते किरीटिसप्ताश्वरथारूढ लिङ्गदेशोद्भव काश्यपसगोत्र सूर्येहाऽऽगच्छेति मध्ये प्रामुख्यां ताम्रप्रतिमायां रक्ताक्षतैः सूर्यमावा हाधितिष्ठति स्थापयेत् । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034602
Book TitleSanskar Paddhati
Original Sutra AuthorN/A
AuthorBhaskar Shastri, Sudev Shastri
PublisherVinayak Ganesh Apte
Publication Year1924
Total Pages262
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy