SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ ग्रहमखः । अथ ग्रहमखः । स च नित्यनैमित्तिककाम्यभेदेन त्रिविधः । शुभवारत्रिजन्मनक्षत्रायनविषुवोपरागादिषु नित्यः । उपनयनादिकर्मप्रारम्भेषु नैमित्तिकः । विपदपगमसंपदादिकामनासु काम्यः । तत्र काम्ये मण्डपकुण्डा (कुण्डमण्डपा)दिकं नित्यम् । नित्यनैमित्तिकयोरनित्यम् । यदा स्थण्डिलं तदा वेदिरेव न मण्डपः । कुण्डाभावे स्थण्डिले होमः कार्यः । अथ प्रयोगः– कर्ता स्नात्वा नित्यकर्म निर्वर्त्य मौहूर्तिको काल आचम्य प्राणानायम्य देशकालौ संकीर्त्य करिष्यमाणामुककर्मणि ग्रहानुकूल्य सिद्धिद्वारा श्रीपरमेश्वरप्रीत्यर्थं ग्रहयज्ञं करिष्य इति नैमित्तिके संकल्पः । नित्ये ग्रहयज्ञं करिष्य इति, काम्ये तत्तत्कामनया ग्रहयज्ञं करिष्य इति संकल्पः । संभारसंभरणं संकल्पात्पूर्वं कर्तव्यम् । काम्ये यथोक्तवस्तून्येव । अन्यत्र प्रतिनिधिरपि । ततो गणपतिपूजनादि नान्दीश्राद्धान्तं कृत्वाऽऽयायांदिवरणं कुर्यात् । अमुकमवर । न्वितामुक गोत्रोत्प नामुक शाखाध्यायी, अमुकप्रवरान्वितामुकगोत्रोत्पन्नममुकशाखाध्यायिनममुकशर्माणमस्मिन्ग्रहयज्ञ आचार्यत्वेन त्वां वृण इति विधिज्ञं ब्राह्मणं पाणिं संस्पृश्य वृणुयात् । तद्धस्ते फलादि दद्यादित्याचारः । ततस्तं संपूज्य प्रार्थयेत् - आचार्यस्तु यथा स्वर्गे शक्रादीनां वृहस्पतिः । तथा त्वं मम यज्ञेऽस्मिन्नाचार्यो भव सुव्रत ।। इति ॥ ततो ब्रह्माणं वृत्वा संपूज्य यथा चतुर्मुखो ब्रह्मा स्वर्गे लोके पितामहः । तथा त्वं मम यज्ञेऽस्मिन्ब्रह्मा भव द्विजोत्तम ॥ इति तं प्रार्थयेत् । ततः सदस्यं वृत्वा संपूज्य ४ भगवन्सर्वधर्मज्ञ सर्वधर्मभृतां वर । वितते मम यज्ञेऽस्मि सदस्यो भव सुव्रत । इति तं प्रार्थयेत् । ततो होमानुसारेणर्त्विजो वृत्वा संपूज्य अस्य यांगस्य निष्पत्तौ भवन्तोऽभ्यर्थिता मया । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034602
Book TitleSanskar Paddhati
Original Sutra AuthorN/A
AuthorBhaskar Shastri, Sudev Shastri
PublisherVinayak Ganesh Apte
Publication Year1924
Total Pages262
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy