SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ त्रिवदनहोमप्रयोगः। ततोऽग्रेणानं प्रणीताः पर्याहत्यापरेणाग्निं निधाय प्रागादिक्रण दिकचतुष्टय ऊर्ध्वमधश्च जलमुत्सिच्य भूमाववशिष्टं जलं निनीयाऽऽत्मानं पत्नी च मार्जयित्वा मुखं संमृजीत । ततो ब्रह्मणे हिरण्यं गां वा पूर्ण: पात्रं वा दक्षिणां दद्यात् । ब्रह्मा स्वस्तीत्युक्त्वा यथेतं प्रतिनिष्क्रामति । एते चेमसंनहनादयो धर्मा आघारवत्सु दर्विहोमेषु गृह्यान्तरे दृष्टाः कृताकृताः। केचिद्वास्तुबलिकर्मानन्तरमेतान्धर्माननुतिष्ठन्ति । ततः संस्थाजपेनोपतिष्ठते यज्ञ नमस्ते यज्ञ नमो नमश्च ते यज्ञ । शिवन मे संतिष्ठस्व स्योनेन मे संतिष्ठस्व सुभतेन में संतिष्ठस्व ब्रह्मवर्चसेन मे संतिष्ठस्व यज्ञस्याधिमनु संतिष्ठस्वोप ते यज्ञ नम उप ते नम उप ते नमः। अग्न नय० विधेम। इत्यग्न्यायतनात्पडङ्गुलं स्थलं विहायाग्नि तत्रानुलक्षीकृत्य वायव्यां दिशि पूजयेत् । अग्निपूजन आरक्तगन्ध पुष्पाक्षतान्वर्जयेत् । मा नस्तोके त०मते । इत्यनेविभूति ललाटे धृत्वा श्रद्धां मेधां यशः प्रज्ञां विद्या बुद्धि श्रियं बलम् । ' आयुष्यं तेज आरोग्यं देहि मे हव्यवाहन । इत्याग्निं संप्राय नमस्कुर्यादिति । अमुमुपनयनोपदिष्टहोमविधिमन्यत्राप्यतिदिशति-सर्वदविहोमाणामेष कल्प इति । जुहोतिचोदितेषु दर्विहोमेषु सर्वेषु एष उद्धननादिः प्रसाध. नीदेवीहोमान्तोऽनुक्रान्तः कल्पो विधिर्भवतीत्यर्थः । तथा चाऽऽघारवत्सु दर्विहोमेष्वेवायं विधिः फलति । आपूर्विकेषु तु यावदर्थ द्रव्यसंस्कारः परिस्तरणपरिषेकी यावदुक्ता आहुतयोऽन्यानि च वैशेषिकाणि कर्माणीति बौधायनोक्तविधिरेवेति तात्पर्यम् । इदं च तन्त्रद्वयं तत्तत्कर्मविशेषे तत्तत्सूत्रोक्त्या शास्त्रान्तरोक्त्याऽऽचाराच व्यवस्थितं ज्ञेयम् । इत्यग्निमुखपयोगः। अथाऽऽपूर्विकतन्त्रेण त्रिदन्नहोमप्रयोगः । फर्ताऽमुककर्माङ्ग त्रिदन्नहोमं पुण्याहवाचनं च करिष्य इति संकल्प्य समिश्यमादाय श्रद्ध एहीत्यादि प्राणायामान्तं कृत्वा त्रिदन्नहोमक Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034602
Book TitleSanskar Paddhati
Original Sutra AuthorN/A
AuthorBhaskar Shastri, Sudev Shastri
PublisherVinayak Ganesh Apte
Publication Year1924
Total Pages262
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy