________________
संस्कारपद्धतो
अथ जयाधुपडोमाः । ॐ चित्तं च स्वाहा । चित्तायेदं० । चित्तिश्च स्वाहा । चित्तय इदं० । आकृतं च स्वाहा । आकूतायेदं । आकूतिश्च स्वाहा । आकृतय इदं० । विज्ञातं च स्वाहा । विज्ञातायेदं० । विज्ञानं च स्वाहा । विज्ञानायेदं । मनश्च स्वाहा । मनस इदं० । शकरीश्च स्वाहा । शंकरीभ्य इदं० । दर्शश्च स्वाहा । दर्शायेदं० । पूर्णमासश्च स्वाहा । पूर्ण: मासायेदं० । बृच्च स्वाहा । बृहत इदं० । रथंतरं च स्वाहा । रथंतरायेदं । प्रजापति यानिन्द्राय वृष्णे प्रायच्छदुनः पृतनाज्येषु तस्मै विशः समनमन्त सर्वोः स उग्रः स हि हव्यो बभूव स्वाहा । प्रजापतय इदं० । इति त्रयोदश जयहोमाः । - अथाभ्यातानाः । ॐ अग्निभूतानामधिपतिः स माऽवत्वस्मिन्ब्रह्मनस्मिन्क्षत्रेऽस्यामाशिष्यस्यां पुरोधायामस्मिन्कर्मन्नस्गं देवहूत्यारस्वाहा । अग्नये भूतानामधिपतय इदं० । इन्द्रो ज्येष्ठानामधिपतिः स मा० इन्द्राय ज्येष्ठानामधिपतय इदं०। यमः पृथिव्या अधिपतिः स मा० यमाय पृथिव्या अधिपतय इदं० । वायुरन्तरिक्षस्याधिपतिः स मा० वायवेऽन्त रिक्षस्याधिपतय इदं० । सूर्यों दिवोऽधिपतिः स मा० मूर्याय दिवोऽधिपतय इदं० । चन्द्रमा नक्षत्राणामधि० चन्द्रमसे नक्षत्राणामधिपतय रहं० । बृहस्पतिर्ब्रह्मणोऽधि० बृहस्पतये ब्रह्मणोऽधिपतय इदं० । मित्रः सत्यानामधि० मित्राय सत्यानामधिपतय इदं० । वरुणोऽपामधि० वरुणायापामधिपतय इदं । समुद्रः स्रोत्यानामवि० समुद्राय स्रोत्यानामधिपतय इदं० । अन्न साम्राज्यानामधिपति तन्माऽत्र. अन्नाय साम्राज्याना-मधिपतिन इदं। सोम ओषधीनामाधि० सोमायोषधीनामधिपतय इदं । सविता प्रसवानामधि० सवित्रे प्रसवानामधिपतय इदं० । रुद्रः पशूनामधि०. रुद्राय पशूनामधिपतय इदं० । अत्रोदकस्पर्शः । त्वष्टा रूपाणामधिपतिः० त्वष्टे रूपाणामधिपतय इदं० । विष्णुः पर्वतानामधि० विष्णवे पर्वतानामधिपतय इदं० । मरुतो गणानामधिपतयस्ते माऽवन्त्व० मरुद्भयो गणानामधिपतिभ्य इदं० । ततः प्राचीनाबीती भूत्वा । पितरः पितामहाः परेऽवरे ततास्ततामहा इह माऽवत । अस्मिन्ब्रह्मनस्मिन्क्षप्रयामाश० पितृभ्यः पितामहेभ्यः परेभ्योऽवरेभ्यस्ततेभ्यस्ततामहेभ्य इदं०। ततो यज्ञोपवीती। अप उपस्पृशेत् । पितृणामुपस्थानपक्षेऽपि प्राचीनावी न स्वाहाकारत्यागौ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com