________________
अग्निमुखप्रयोगः। मसं गन्धर्वम् । नक्षत्राण्यप्सरसो बेकुरीः । भुज्युं सुपर्ण यज्ञं गन्धर्वम् । दक्षिणा अप्सरसः स्तवाः । प्रजापति विश्वकर्माणं मनो गन्धर्वम् । ऋक्सामान्यप्सरसा वह्नीः । इषिरं विश्वव्यचसं वातं गन्धर्वम् । अपोऽप्सरसो मदाः। भुवनस्य पति परमेष्ठिनमाधेपति मृत्यु गन्धवम् । विश्वमप्सरसों भूः । सक्षिति मुभूति भद्रकृतं सुवर्वन्तं पर्जन्यं गन्धर्वम् । विद्युतोऽप्सरसो रुचः । दरेहेतिममृडयं मृत्यु गन्धर्वम् । प्रजा अप्सरसो भीरू: । चारु कृपणकाशिनं कामं गन्धर्वम् । आधीरप्सरसः शोचयन्तीः । भुवनस्य पति कैकयाऽऽज्याहत्या यक्ष्य इत्युल्लिखेत् । अथवा जयदेवता अभ्या. तानदेवता राष्टभद्देवता एकैकयाऽऽज्याहुत्या यक्ष्य इति समुदितरूपे. णोल्लेखः । स्विष्टकृद्धोमे--अग्निं स्विष्टकृतमेकया हुतशेषाहत्या यक्ष्ये । प्रायश्चित्तहोमे--अग्निं तिसृभिराज्याहुतिभिः, अग्निं वरुणं चेन्द्रं मघवन्त. मिन्द्रं वृत्रहणं त्र्यम्बकं विष्णुमा वायुं सूर्य बृहस्पति वरुणमिन्द्रं विश्वा. न्देवाश्चैकैकयाऽऽज्याहुत्या यक्ष्ये । संस्रावहामे–वसन्रुद्रानादित्यान्संस्रावाज्येन यक्ष्ये । एता देवताः सद्यो यक्ष्ये । ततो भूर्भुवः सुवः स्वाहेत्यन्वाधानसमिधोऽनावादध्यात् । प्रजापतय इदं न ममेति त्यागः । ततः स्थाण्डिलाद्दशाङ्गुलमितं पश्चाङ्गुलमितं वा स्थलं त्यक्त्वा प्रागादिदिक्षु प्रागौर्दर्भः परिस्तृणाति माग्दक्षिणतः पश्चादुत्तरतः । परि• स्तरणे चत्वारस्त्रयो वा दर्भाः । ततो दक्षिणेनानि ब्रह्मायतने दर्भा. मागग्रान्स्तृगाति । ॐ मयि गृह्णाम्यग्रे अमि० परागादिति द्वाभ्यामात्मनि अग्निहीत इति विभाव्य जपति । ततोऽग्नरुत्तरत उदगग्रान्दीन्संस्तीय तेषु यथाप्रयोजनं दामाज्यस्थाली प्रणीतापात्रं प्रोक्षणीपात्रमिमं बर्हिः उपवेषः संमार्गदर्भानवज्वलनदर्भानाज्यं प्रादेशमात्राः समिधश्चेति साधारणानि शेषिकाणि च पात्राणि द्रव्याणि च सकृ. देव यथोपपादं वाऽऽसादयेत् । ततोऽग्न्यायतनादीशान्याममुकावरान्वितामुकगोत्रोत्पन्नामुकशाखाध्यायिनममुकशर्माणममुककर्मणि ब्रह्माणं त्वामहं वृण इति ब्रह्माणं यजमानो वृणुयात् । ब्रह्मा वृतोऽस्मि कर्म करिष्यामीत्युक्त्वा द्विराचम्योत्तरेण पात्राणि अपरेणाग्निं पूर्वेणाऽऽचार्य दक्षिणाऽतिक्रम्याऽऽसनातन निरस्याप उपस्पृश्यानिमाभिमुख उपवि. शति । ब्रह्मालाभे यज्ञोपवीतं दण्डं कमण्डलु कूर्च वा स्थापयेत् । तता द्वौ दी समौ सायावन्तर्गर्भरहितो प्रादेशमात्रौ पवित्रे कृत्वा प्रणीता. पात्रं गृहीत्वा त्रिः प्रक्षाल्य प्रागग्रे पवित्रे तस्मिनिधायोपविलं पूरयि.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com