SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ नान्दीश्राद्धप्रयोगः । पूर्वे वयसि । उत्तरे वयसि तु दक्षिणप्रकोष्ठस्थं हृदयस्थं वा लोम च्छित्ता छित्त्वा तेनैव मन्त्रेण प्रक्षिपेत् । १३ ततः पितृभ्यो ना० भ्यो नम इव गन्धादिपूजयेत् । अत्र रक्तग न्धपुष्पायपि देयम् । ततो नमोः पितरो तात्यादिषु पितृशब्दोत्तरं नान्दीमुखशब्दप्रयोगः कर्तव्यः । ततः शिवा आपः सन्त्वित्यादि । अस्मिञ्श्राद्धे दत्तैरन्नोदकादिभिनन्दमखाः पितरः प्रीयन्तामिति भ ब्रुवन्त्वित्यक्षय्यं दत्त्वा प्रीताः सन्तु इति तैरुक्ते सर्वेभ्यो विद्वाज़ा मलकनिष्क्रयं दक्षिणाः पत्त्रिति दक्षिणां दद्यात्ताम्बूलं च । ततो दातारो नोऽभिवर्धन्तामिति विशान्मार्थयेत् । वोऽभिवर्धन्तामिति विप्राः प्रतिब्रूयुः । ततो नान्दीमुखाः पितरः श्रीयन्तामिति भवन्तो ब्रुवति कर्ता वदेत् । प्रीयन्तां नान्दीमुखाः पितर इति विप्राः । मद्गृहे सततं शोभनमस्त्विति भवन्तो ब्रुवन्विति कर्ता वदेत् । स्वद्गृहे सततं शोभनमस्त्विति विप्राः प्रतिब्रूयुः । अत्र सर्वान्पिण्डान् 'त्यमूषु वाजिनं देवजू सहावानं तरुतारं रथानाम् । अरिष्टनेमिं पृतनाजमाशुं स्वस्तये तार्क्ष्यमिहाऽऽहुवेम ' इति मन्त्रेणोद्धृत्याप्सु क्षिपति । ब्राह्मणं वा भोजयतीत्यादि प्रतिपत्यन्तरं तु दर्शश्राद्धवत् । ततो बरिग्नौ प्रहरति । पिण्डस्थाने जलमासिच्य वाजे वाजे, इत्यस्य स्थाने ' त्यमृ षु वाजिनं० ।' इति मन्त्रमुक्त्वा पितृन्देवांश्च विसर्जयेत् । ततः कूर्चद्वयं विस्रस्य । आमा वाजस्य० गन्तां पितरा नान्दीमुखा मातरा नान्दीमुखाश्चाऽऽमा सां० स्वादुप‍ सदः पितरो नान्दीमुखा वयोधाः० ब्राह्मणासः पितरो नान्दीमुखाः सोम्यासः शिवे इत्यूहेन मन्त्रान्वदेत् । ततो विमा व स्तं० आयुः प्रजां ० प्रीतात्तुभ्यं पितामहा नान्दीमुखा इत्याशिषो दद्युः । ततः कर्ता माता पितामही चैव प्रमातामहकस्तथा । ए० मङ्गलमिति विप्रान्वदत् । विमा मात्रादयः सुप्रीता मङ्गलं प्रयच्छन्तु, इति प्रतिब्रूयुः । तत इडा मग्नं ० इत्यनेन मन्त्रेणाऽऽचारात्पात्रेण किंचिद्द्रव्यं संघट्टयेत् । ततोऽय मे सफलमित्यादि यस्य स्मृत्येत्येतदन्तं कृत्वा, अनेन नान्दीश्राद्धाख्येन कर्मणा परमेश्वरः प्रीयतां न ममेति कर्म समर्प्य विष्णुं संस्मृत्य पवित्रे विसृज्याऽऽचम्य मातृर्विसर्जयेत् । 2 इति नान्दीश्राद्धप्रयोगः । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034602
Book TitleSanskar Paddhati
Original Sutra AuthorN/A
AuthorBhaskar Shastri, Sudev Shastri
PublisherVinayak Ganesh Apte
Publication Year1924
Total Pages262
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy