________________
नान्दीश्राद्धप्रयोगः। णीय इति ब्रूयात् । इति प्रथमद्वितीयदेवार्थ प्रतिदेवं ब्राह्मणद्वयं निमन्त्रयेत् । एवं मात्रादिवर्गत्रय उत्तरीत्या क्षणः करणीय एतदन्तमुक्त्वा प्रतिवर्ग ब्राह्मणद्वयं निमन्त्र्य समस्तसंपदिति ब्राह्मणान्प्रदक्षिणीकृत्ये. त्याद्यगौकरणान्तं दर्शश्राद्धवत्कुर्यान् । तत्र विशेषः-दर्शश्राद्धशब्दस्थाने नान्दीश्राद्ध शब्दः प्रयोक्तव्यः । चतुरश्रमण्डल एव पायदानम् । प्रानुतां भवन्तौ प्रामवावेति प्रश्नपतिवचनयोरुहः । आसन ऋजव एव दर्भाः । प्रदक्षिणमेव कुशासनम् । यवोऽसि यवयेत्यनेनैव यवप्रक्षेपणम् । तत्तद्युग्माद्यविप्रकरं तत्तद्वितीयविप्रकरे संस्थाप्य कराग्रेण पवि. त्राग्रं तेन तेन धारयित्वा तत्र तत्र तन्त्रेणाध्य देयम् । नान्दीमुखान्पितनावाहयिष्ये, इत्यावाहन ऊहः । मध्यमामुल्यैव गन्धदानं द्विद्विरेव । पुष्पाणि मालत्यादीनि । ततश्चतुरश्रमण्डले सौवणानि तदभावे मधुकपलाशादीनि सर्वाणि भोजनपात्राणि संस्थाप्य सर्वपात्राणां परितो बृहत्सामेति प्रदक्षिणमेव भस्ममर्यादां कृत्वा करशुद्धिं विधाय पात्रेषूपम्तीर्य होमार्थानोद्धरणार्थ पात्रमुपस्तीर्य गृहीत्वा, उद्धरिष्याम्य० मि, इति ब्राह्मणानामन्त्रयते । काममु० क्रियतामिति विप्रा अनुज्ञा दयुः । ___ ततः कतो तूष्णीमेवामूलमेव महर्तिराच्छिद्य तूष्णी परिस्तरणार्थान. मूलानेर दर्भानाच्छिद्योभयं बद्ध्वाऽयो निदधाति । ततो दक्षिणानि. मौपासनानि वा तदभावेऽयाश्चेत्यादिविधिनोत्पादितमग्निं प्रागुदगर्द:: प्रदक्षिणमेव परिस्तीर्य तूष्णीमेव प्रदक्षिणं परिषिच्य पिण्डदानार्थ पृषदाज्यं निष्पाद्य सुरक्षितं निदध्यात् । दनि तदर्धमाज्यमानीय तदालाडयेत्तत्पृषदाज्यं भवति । अत्रासंस्कृतमेवाऽऽज्यम् । तत आज्येनाभिधायोद्वास्याग्नेः पश्चान्निधाय दक्षिणं जान्याच्य मेक्षणेनोद्धृतान्नैकदेशमुपहत्य . सोमाय पितृपीताय स्वाहेति प्रथमाहुति जुहोति । सोमाय पितृपीतायेदं। पुनरुपहत्य-यमायाङ्गिरस्वते पितृमते स्वाहेति तृतीयाहुत्यर्थ कानिचि.. सिक्थान्यवशेष्य द्वितीयामाहुति जुहोति । यमायाङ्गिरस्वते पितृ मत इदं० । अग्नये कव्यवाहनाय स्विष्टकृते स्वाहेति यानि मेक्षणे द्वितीयाहुत्यवशेषितानि सिक्थानि तेस्तृतीयामाहुति जुहोति । अग्नये कव्य-. वाहनाय स्वि० इदं० । ततस्तू मेक्षणमनुप्रहरति । ततः पात्रेषुः मधुरद्रन्यव्यञ्जनसहितमन्नं परिविष्य हुतावशिष्टं किंचित्पितृपात्रेषु परिविष्य देवेभ्यो नैवेद्यं समर्प्य सत्यं त्व० परिषिच्य पृथिवी ते पात्रमित्या. द्युक्त्वा मत्यमाभ्यो वि० भ्यो नान्दीमुखेभ्य इदमानं मोपकर
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com