________________
पुण्याहवाचनप्रयोगः ।
ब्रह्मणा० प्रमोषीः । उत्तरकलशे वरुणमावाह्य नर्य प्रजामिति प्रतिष्ठाप्य पूजयेत् । ततस्तत्रैव देवता आवाहयेत् | कलशस्य मुखे० ॥
सर्वे समुद्राः सरितस्तीर्थानि जलदा नदाः । आयान्तु मम शान्यर्थं दुरितक्षयकारकाः ।।
1
इत्यावाद्य संपूज्या क्षतानुत्तरकलशे प्रक्षिपेत् । मातृदेवो भव । पितृ. देवो भव । आचार्यदेवो भव | अतिथिदेवो भवेति । ततोऽवनिकृतजानुमण्डलः_कमलमुकुलसदृशमडलं शिरस्याधाय दक्षिणेन पाणिना सुवर्णपूर्णकलशं धारयित्वाऽऽशिषः प्रार्थयेत् । एताः सत्या आशिषः सन्तु । दीर्घा नागा नद्यो गिरयस्त्रीणि विष्णुपदानि च । तेनाऽऽयुःप्रमाणेन पुण्याहं दीर्घमायुरस्तु | विप्राः सन्तु अस्तु इति यथायोग्यं प्रत्युत्तरं दद्युः । ततः कर्ता शिवा आपः सन्तु । सौमनस्यमस्तु । अक्षतं चारिष्टं चास्तु | गन्धाः पान्तु | मौमङ्गल्यं चास्तु | अक्षताः पान्तु । आयुष्यमस्तु । पुष्पाणि पान्तु | सौश्रियमस्तु | ताम्बूलानि पान्तु । ऐश्वर्यमस्तु | दक्षिणाः पान्तु | बहु देयं चास्तु | दीर्घमायुः श्रेयः शान्तिः पुष्टिस्तुष्टिश्चास्त | श्रीर्यशो विद्या विनयो वित्तं बहुपुत्रं चाssयुष्यं चास्तु । इलि वाक्यानि पठेत् । तत्राऽऽद्यवाक्यत्रयान्त उदकं विप्रहस्तेषु दत्त्वा द्वयोर्द्वयोर्वाक्ययोरन्ते तत्तल्लिङ्गानुसारेण तं तमुपचारं दत्त्वा दीर्घमायुरिति वाक्यद्वयेन विमान्प्रार्थयेत् । इति संप्रदायः । विप्राः पान्तु अस्तु इति यथायोग्यं ब्रूयुः । ततः कर्ता यं कृत्वा सर्ववेदयज्ञक्रियाकरणकर्मारम्भाः शुभाः शोभनाः प्रवर्तन्ते । तमहमोंकारमार्दि कृत्वा, ऋग्यजुः सामाशीर्वचनं बहुपिमतं संविज्ञातं भवद्भिरनुज्ञातः पुण्यं पुण्याहं वाचयिष्ये इति वदेत् । वाच्यतामिति विप्राः । ततः कर्ता भद्रं कर्णेभिः शृ० देवहितं यदायुः । द्रविणोदा द्रविणस० रासते दीर्घमायुः | सविता पश्चाता० रासतां दीर्घमायुः । नवो नवो भव० स्तिरति दीर्घमायुः । उच्चा दिवि द० प्रतिरन्त आयुः । आप उन्दन्तु० वर्चसे । यस्त्वा हृदा की अमृतत्वमश्याम् । यस्मै त्व५ सु० नशते स्वस्ति | सन्त्वासिञ्चामि यजुषाद धनं च । इति मन्त्रानुक्त्वा व्रतनियमतपःस्वाध्याय क्रतुदपदानविशिष्टानां ब्राह्मणानां मनः समाधीयताम् । इति विप्रान्प्रार्थयेत् । विप्राः समाहितमनसः स्म इति । कर्ता प्रसीदन्तु भवन्त इति वदेत् । विमाः प्रसन्नाः स्म इति । ततः कर्ता शान्तिरस्तु १
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com