________________
भट्टगोपीनाथदीक्षितविरचितः-- चेति नेयम् । प्रतिकर्म शिवाघन्धस्तु न शन्नीयः । उपवीतेऽपि भेदा. पत्तेरिति वर्धमानः । सशिखवपनेन खल्वाटत्वादिदोषेण च विशिखश्चेतदोपायमाह कौथुमिः- यदि तु सर्वथा विशिख एव स्यात्तदा सप्तभिर्दभैब्रह्मपन्धियुत्तां शिखां कृत्वा दक्षिणे फर्ण धारयेदिति । काठकग. ह्येऽपि -अथ चैत्यमादान शिखा स्यात्तदा कौशी शिखां ब्रह्मग्रन्थियुतां दक्षिणे कर्णे निदध्यादिति । गृह्यसूत्रे-मयि दक्षकतू इति जञ्जभ्यमानो जपतीति । इदं च पुरुषार्थ कर्मार्थ चेति ज्ञेयम् । अहीनवत्पुरुपधर्मस्तदर्थत्वादिति जैमिनिरप्येवमेवाऽऽह । यज्ञियसमिधो ब्राह्मे
शमीपलाशन्यत्रोधलक्षवैकडून्तोद्भवाः ।। अश्वत्थोदुम्बरौ बिल्वश्चन्दनः सरलस्तथा ।
सालश्च देवदारुश्च खदिरश्चेति यज्ञियाः । इति । फर्मप्रदीपे--
नाडुग्लादधिका कार्या समित्स्थूलतया कचित् । न वियुक्ता त्वचा चैव न सकीठा न पारिता । प्रादेशानाधिका नोना तथा स्यान द्विशाखिका ।
न सपर्णा समित्कार्या होमकर्ममु जानता ॥ इति । इदं च प्रादेशमात्रत्वं यज्ञयाश्वत्थसमि दावे सूत्रकृता विहितत्वानियतम् । अन्यत्रानियतम् । अन्यथा तत्र तत्र तद्विधानं व्यर्थ स्यादिति द्रष्टव्यम् । स्मृत्यन्तरे----
मादेशमा यः समिधो ह्यखा नैव पारिताः । काम्येषु वश्य कर्मादौ विपरीता जिघांसतः ॥ विशीर्णा विदला ह्रस्वा पक्रा बहुशिराः कृशाः ।
दीर्घाः स्थूला घुणैर्जुष्टाः कर्मसिद्धिविनाशिकाः ।। इति । इन्तुमिच्छा जिघांसा, जिघांसतीति जिघांसन् , तस्य जिघासतः । भाभिचारिके कर्मणि प्रादेशतोऽधिका एव खर्वा एव पारिता एवं समिधो भवन्तीति विपरीतशब्दार्थः । पारिजाते स्मृत्यन्तरे
सर्वेषु धर्मकार्येषु पत्ती दक्षिणतः सदा । अभिषके विप्रपादक्षालने वामतो भवेत् ॥ इति ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com