SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ उपोद्घातः। स्मृत्यन्तरे अशून्यं तु करें कुर्यात्सुवर्णकुशरूप्यकैः ॥ इति । रूप्यं रजतम् । रूप्यमेव रूप्यकम् । स्वार्थे कः । वृद्धमनः-- पादुके चोत्तरीयं च तर्जन्यां रूप्यधारणम् । न जीवरिपतृकः कुर्याज्ज्येष्ठे भ्रातरि जीवति ।। इति । पादुके काष्ठमय्यौ । निरुपपदप्रयोगेण तत्रैव शक्तिनिरूपणात् । उत्त. रीयमुपवासः । तत्र नोपरिवासोमात्रं किंतु सग्रन्थि परिमण्डलं घस्त्रमुत्तरीयं कुर्याद्वस्त्रोत्तरीयाभावे त्वेकागुलं दयगुलं व्यङ्गलं चतुरङ्गुलं चा सूत्रैरेव कृतं परिमण्डलमुत्तरीयं कुर्यादिति जातूकर्योत्तमुत्तरीय. रूपं निषिद्धम् । एतेनैर--- यज्ञोपवीते द्वे धार्य श्रोते स्मार्ते च कर्मणि । तृतीयमुत्तरीयार्थे वस्त्राभावे तदिष्यते ॥ इति विश्वामित्रोक्तमुत्तरीयस्थामापन्नं तृतीयमुपवीतमपि निपिद्धम् । उपरिचस्वमात्रं तु जीवत्पितृकस्यापि भवत्येव । एकवस्त्रो न भुञ्जीयान कुर्यादेवतार्चनम् । न चार्चयेद्विजानान्यत्कुर्यादेवंविधो नरः॥ इत्येकवस्त्रस्य गोभिलेन कर्मनिषेधात् । अयं च सर्वकर्मसु एकत्र. स्त्रनिषेधो द्रष्टव्यः । भोजनादिग्रहणं तदाहरणार्थमत्यावश्यकत्वा च । नन्वेकवस्त्र इत्येतस्य सामान्यरूपत्वाज्जीवत्पितकस्य सर्वोसरीयबाप इति चेन्न । उत्तरीय शब्दस्य योगाविशेषेऽपि जातक तोत्तरीये रूढिविशेषात् । रूढेश्च योगादलीयस्त्वात् । द्विरात्रादिष्वेवाहीनशब्दवत् । तर्जन्यां प्रदेशिन्यां रूप्यधारणम् । इहापि तर्जन्यां रूप्यधारणस्य विशिटस्यैवोद्देश्पत्वम् । न ब्राह्मणं हन्यादिति ब्राह्मणहन नस्येव । अन्यथा रूप्यमयमणिबन्धालंकारादेरपि निषेधापत्तेः । एतानि जीयांत्पित्रग्रजो न कुर्यादिति वाक्यार्थः । मनुः-- सदोपवीतिना भाव्यं सदा बद्धशिखेन च । विशिखो व्युपवीतश्च यत्करोति न तत्कृतम् ।। इति । अत्र सदाशब्देन पुरुषार्थता । पिशिखो व्युपवीतश्चेत्यनेन कर्मा थता । तत्र पुरुपापराधे रमात प्रायश्चित्तम् । कर्मापराधे श्रौत स्मात Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034602
Book TitleSanskar Paddhati
Original Sutra AuthorN/A
AuthorBhaskar Shastri, Sudev Shastri
PublisherVinayak Ganesh Apte
Publication Year1924
Total Pages262
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy