________________
२८
भट्टगोपीनाथदीक्षितविरचितःइदं चामामारभ्य ज्ञेयम् । मार्कण्डेय:
म ब्रह्मग्रन्थिनाऽऽचामेन दूर्वाभिः कदाचन ।
काशहस्तस्तु नाऽऽचामेत्कदाचिद्विधिशङ्कया ।। इति । विशेषतः पवित्रलक्षणं स्मृत्यन्तरे--
व्यङ्गुलं मूलतः कुर्यादम्पिरेकाङ्गुलस्तथा ।
चतुरालमग्रं स्यात्पवित्रस्य च लक्षणम् । इति । तत्रैव
बारेण कुर्याद्रन्थि नु पवित्रस्य विचक्षणः । इति । तारः प्रणवः । रत्नावल्याम्--
द्वयोस्तु पर्वणोर्मध्ये पवित्रं धारयेद्बुधः । इति । पवित्रपातप्रायश्चित्तमुक्तं स्मृत्यन्तरे
पवित्रे पतिते ज्ञाते तथा जपमणावपि ।
प्राणायामनयं कुर्यात्स्नात्वा विमोऽघमर्षणम् ॥ इति । जपेदिति शेषः । अघमर्षणमृतं चेति मन्त्रत्रयात्मकं सूक्तम् ।। पवित्रत्यागे विशेष उक्तः स्मृन्यर्थसारे
नित्ये नैमित्तिके वाऽपि कर्मोपकरणे द्विजः ।
धृतं पवित्रं कर्मान्ते ग्रन्थि मुक्त्वैव तत्त्यजेत् ।। इति । कुशाभावे स्मृतिसारे--
कुशाभावे तु काशाः स्युः कुशाः काशाः समाः स्मृताः।
काशाभावे ग्रहीतव्या अन्ये दर्भा यथोचितम् ॥ इति ।। हारीत:
कुशाभावे तथा काशा दुर्वा व्रीहियवा अपि । गोधूमाश्चैव नीवाराः श्यामाकोशीरबल्वजाः ॥
मुञ्जा वाऽथ परिग्राह्याः सर्वकर्मसु निश्चितम् ।। इति । अत्र श्रीहियवगोधूमनीवारश्यामाकशब्दास्तत्तत्तृणपराः । सर्वपवित त्रेभ्यो हेमपवित्रमतिप्रशस्तमित्युक्तं हेमाद्रौ
अन्यानि च पवित्राणि कुशदूर्वात्मकानि च । हेमात्मकपवित्रस्य कलां नाईन्ति- षोडशीम् ।। इति ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com