________________
उपोद्घातः ।
३७ क्वाप्रत्ययादेव च्छेदनेऽपि पूर्वोत्तरामुखत्वे सिद्धे पुनर्वचनं विशेष. विधिप्रतिपादितधर्मान्तरपरिसंख्यार्थम् । तेन छित्त्वेत्यस्यैव विशेष. विधिप्रतिपादितत्वाच्छेदने निवृत्तिः, शुचौ देशे शुचिर्भूत्वेत्यस्य तु न निवृत्तिर्विशेषविधिप्रतिपादितत्वाभावादिति द्रष्टव्यम् । कुशग्रहणकाल. माहाङ्गिराः
अहन्यहनि कर्मार्थ कुशच्छेदः प्रशस्यते ।
कुशा धृता ये पूर्वत्र योग्याः स्युर्नोत्तरत्र ते ॥ इति । पूर्वत्र पूर्वस्मिन्कर्मणि धृता ये कुशास्त उत्तरोत्तरस्मिन्ननन्तरं क्रियमाणे कर्मणि न योग्या इत्यर्थः । अहन्यहनि कुशच्छेदनासंभवे कालान्तरमुक्तं स्मृत्यन्तरे
मासि मास्याहृता दर्भास्तत्तन्मास्येव चोदिताः ॥ इति । अस्याप्यसंभवे विष्णुः
दर्श श्रावणमासस्य समन्त्रोत्पाटिताः कुशाः।
अयातयामास्ते दर्भा नियोज्याः स्युः पुनः पुनः ॥ इति । अयातयामा अपर्युषिताः । नियोज्या उपयुक्ता अप्यनिषेधेऽन्यत्र प्रयोज्या इत्यर्थः । जाबालि:
कुशान्काशांश्च पुष्पाणि गवार्थ च तृणादिकम् । निषिद्ध चापि गृह्णीयादमावास्याहान द्विजः ॥ इति । यस्तुअमायां नैव हिंस्यात्तु कुशांश्च समिधस्तथा। सर्वत्रावस्थिते सोमे हिंसायां ब्रह्महा भवेत् ॥ वनस्पतिगते सोमे यस्तु हिंस्याद्वनस्पतिम् ।
घोरायां ब्रह्महत्यायां युज्यते नात्र संशयः ।। इति । इति निषेधः स यस्मिन्मुहूर्तत्रये बनस्पतिषु सोमो बसति तत्परो न तु कृत्स्नामापर इति योज्यम् । वनस्पतिगतसोमविशिष्ट काले छेइन. निषेधः स लौकिकच्छेदनपरो न विध्मावहिरर्थसमित्कुशच्छेदनपरस्तस्य विहितत्वादिति द्रष्टव्यम् । वनस्पतिषु सोमवासस्य कालस्तु गरुडपुराणेऽभिहितः
त्रिमुहून वसत्य त्रिमुहूर्त जले तथा । त्रिमुहूर्त तथा गोषु त्रिमुहूर्तं वनस्पतौ ।। इति ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com