________________
२६
भट्टगोपीनाथदीक्षितविरचितःत्यागोऽत्राग्रहणम् । आपस्तम्बः
ब्रह्मयज्ञ च ये दर्भा ये दर्भाः पिततर्पणे । हता मूत्रपुरीपाभ्यां तेषां त्यागो विधीयते ॥ अपूता गर्भिता दर्भा ये चाग्रच्छेदिता नखैः । काथिता अग्निदग्धाश्च कुशा वाः प्रयत्नतः ॥ नीविमध्यास्थता दर्भा ब्रह्ममूत्रेण ये धृताः ।
पवित्रांस्तान्विजानीयाद्यथा कायस्तथा कुशाः ॥ इति । गर्भिता गर्भदलसंयुताः । वस्तुतस्तु सूत्रकृता यत्रानन्तर्गर्भत्वमुक्तं तत्रैव नियतमन्यत्रानियतमिति द्रष्टव्यम् । स्मृत्यन्तरे
अमूला देवकार्येषु पितृकार्ये समूलकाः ॥ इति । श्रुतिरपि-यत्परुषि दिनं तदेवानां यदन्तरा तन्मनुष्याणां यत्समूलं तत्पितृणामिति । कौशिकः
सप्रसूनाः स्मृता दर्भा अप्रसूनाः कुशाः स्मृताः ।
समूलाः कुतपाः प्रोक्ताश्छिन्नाग्रास्तृणसंजिताः ।। इति । प्रसूनं पुष्पम् । कुशस्त्ररूपमाहागरा:
अच्छिन्नाग्रान्पवित्रांश्च समूलान्कोमलान्छुभान् ।
पितृदेवजपार्थे च समादद्यात्कुशान्दिजः ।। इति । शातातपः
समित्पुष्पकुशादीनि ब्राह्मणः स्वयमाहरेत् ।
शूद्रानीतैः क्रयक्रीतः कर्म कुर्वन्पतत्यधः ॥ इति । आदिशब्देन दूर्वादि । उत्तरार्धादिदमपि ज्ञायते स्वस्याऽऽहरणाशकतो ब्राह्मणक्षत्रियवैश्याहृतः कर्मकरणे दोषो नास्तीति । कुशः ग्रहणविधिमाह कश्यपः
शुचौ देशे शुचिर्भूत्वा स्थित्वा पूर्वोत्तरामुखः। ॐकारेणैव मन्त्रेण कुशान्स्पृष्ट्वा द्विजोत्तमः॥ विििश्चना सहोत्पन्न परमेष्ठिनिसर्गज । नुद सर्वाणि पापानि कुश स्वस्तिकरो भव ॥ इमं मन्त्रं समुच्चार्य ततः पूर्वोत्तरामुखः । हुंफट्टारेण दर्भास्तु सकृच्छित्त्वा समुद्धरेत् ॥ इति ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com