SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ .१५२ संस्कारपद्धती- यत्र कचन संस्थानां क्षुत्तृषोपहतात्मनाम् । तेषां हि दत्तमक्षय्यमिदमस्तु तिलोदकम् ॥ इति द्वितीयमञ्जलिं दत्त्वा येsबान्धवा बान्धवा वा येऽन्यजन्मनि बान्धवाः । ते तृप्तिमखिलां यान्तु यश्वास्मत्तोऽम्बु वाञ्छति ।। इति तृतीयमञ्जलिं दद्यात् । विस्तरेण तर्पणं कर्तुमसमर्थः प्रपितामही · पर्यन्तं तर्पयित्वा ये पितृवंश्या इत्यादिना तर्पयेत् । एतावदपि कर्तु - -मसमर्थ: आब्रह्मस्तम्बपर्यन्तं देवर्षिपितृमानवाः । तृप्यन्तु पितरः सर्वे मातृमातामहादयः ।। अतीत कुलकोटीनां सप्तद्वीपनिवासिनाम् । आब्रह्मभुवनाल्लोकादिदमस्तु तिलोदकम् || इत्यनेनैव तर्पयेत् । अथवा आब्रह्मस्तम्बपर्यन्तं जगतध्यत्वित्यञ्जलि - त्रयं दद्यात् । जीवत्पितृकस्य नैतत् । ततो द्विराचम्य सूर्यायोदकाञ्जलिं दद्यात् । तत्र मन्त्रः— नमो विवस्त्रते ब्रह्मन्भास्वते विष्णुतेजसे । जगत्सवित्रे शुचये सवित्रे कर्मदायिने ॥ इति । इति तर्पणविधिः । अथ यज्ञोपवीतविधिः । कार्पासक्षौमगोवालशणवल्क तृणादिकम् । यथासंभवतो धार्यमुपवीतं द्विजातिभिः ॥ शुचौ देशे शुचिः सूत्रं संहताङ्गुलिमूलके । आवेष्टय षण्णवत्या च त्रिगुणीकृत्य यत्नतः ॥ अब्लिङ्गकैस्त्रिभिः सम्यक्प्रक्षाल्यो कृ (वृतं तु यत् । अप्रदक्षिणमावृत्तं सावित्र्या त्रिगुणीकृतम् ॥ अधः प्रदक्षिणावृत्तं समं स्यान्नवसूत्रकम् । त्रिरावेष्ट्य दृढं बद्ध्वा हरिब्रह्मेश्वरान्न्यसेत् ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034602
Book TitleSanskar Paddhati
Original Sutra AuthorN/A
AuthorBhaskar Shastri, Sudev Shastri
PublisherVinayak Ganesh Apte
Publication Year1924
Total Pages262
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy