________________
तर्पणविधिः ।
तरां शान्ति कृत्वाऽनन्तरं नशे ब्रह्मण इति परिदध्यात् । द्वितीयदिने गायत्रीपाठानन्तरं तत्तत्प्रपाठकस्य पूर्वी शान्ति कृत्वा कृतान्तादारभेत । अनध्याये स्वल्पो ब्रह्मयज्ञः कार्यः
ः ।
इति ब्रह्मयज्ञप्रयोगः ।
४५१
अथ तर्पणविधिः ।
ततो देवर्षिपितृतर्पणं कुर्यात् । मध्याह्नसंध्योत्तरं वा तर्पणम् । अकृतब्रह्मयज्ञस्तु मध्याह्नसंध्योत्तरं ब्रह्मयज्ञं कृत्वा तर्पणं कुर्यात् । तद्यथाशुचौ देशे प्राङ्मुख उपविश्य देशकालौ संकीत्यै देवर्षिपितृतृत्वर्थे तर्पणं करिष्य इति संकल्प्य शुद्धदेशे प्रागग्रान्दर्भानास्तीर्य ताम्रपात्रमक्ष. तसंयुक्तं जलन पूरयित्वाऽञ्जल मार्गग्रान्दर्भान्गृहीत्वा यज्ञोपवीती देवतीर्थेनाऽऽस्तृतेषु प्रागग्रेषु कुशेष्वग्रभागेऽक्षतव्रीहितण्डुल संयुक्तेन जलेनैकैकाञ्जलिं ब्रह्माद्यङ्गिरोन्तेभ्यो देवेभ्यो दद्यात् । ताम्रादिभाजनान्तरे जले वा तर्पयेत् ।
तत उदङ्मुखो निवती कनिष्ठाङ्गुलिद्वयमूलप्रदेशात्मकेन प्राजाप त्येन तीर्थेनोदगग्रेवास्तृतेषु कुशेषु मध्यभागे यवमिश्रितजलेन विश्वामित्रादीतिहासपुराणान्तेभ्यो द्वौ द्वावञ्जली दद्यात् । सकृन्नान्नाऽपरस्तूष्णीम् ।
ततो न्यश्चितसव्यजानुदक्षिणामुखः प्राचीनावीती पितृतीर्थेन दक्षि णाग्रेष्वास्तृतेषु कुशेषु मूलभागे कृष्णतिलमिश्रितं जलमादाय तेन वैशम्पायनाद्येक पत्न्यन्तेभ्यस्त्रींस्त्रीनञ्जलीन्दद्यात् । सकृन्न म्ना द्विस्तूष्णीम् ।
ततः पित्रादीन्सर्वान्पितॄंस्तर्पयेत् । तत्र सापत्नमातृव्यतिरिक्तैकोदिष्टस्त्रीभ्य एकैक उदकाञ्जलिर्देयः । असंभवे सव्यान्वारब्धदक्षिणहस्तेन वा तर्पणम् । शुचिभूमिपात्रालाभे जलतीर उपविश्योक्तप्रकारेण जल एव तर्पयेत् । तत्र दक्षिणहस्तेन प्रतितर्पणमक्षतानां तण्डुलानां यत्रानां च ग्रहणम् । सव्यहस्तेन तिलानाम् । जीवत्पितृकेण स्वेकपत्न्यन्तानामेव तर्पणं कार्यम् । तर्पणे श्वेता एव तिला ग्राह्याः । प्रकोष्ठपर्यन्तमेव तस्य प्राचीनावीतम् । ततो ये पितृवंश्या मातृवंश्या ये चान्येऽस्मत उदकमर्हन्ति तांस्तर्पयामीति प्रथममवसानाञ्जलिं दत्त्वा
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com