________________
संस्कारपद्धतौ
अथ ब्रह्मयज्ञपयोगः । कोंदिते सूर्ये प्रातोमानन्तरमकृतप्रातराशो ग्रामात्माच्यामुदीच्या. मैशान्यां वा दिशि यावति देशे स्वग्रामच्छदींषि स्वगृहच्छदींषि वा न दृश्यन्ते तावति दूरे नदीतीरे देवखातादितीर्थेऽन्यस्मिन्नपि शुद्ध देशे वा गत्वा हस्तौ पादौ प्रक्षाल्याऽऽचम्य प्रदक्षिणमात्योपवीती भूत्वा जलं नमस्कृत्य प्रयतः प्राङ्मुख उपविश्याऽऽचम्य प्राणानायम्यापः स्पृष्ट्वा देशकालौ संकीर्त्य श्रीपरमेश्वरप्रीत्यर्थं ब्रह्मयज्ञेन यक्ष्य इति संकल्य हस्तौ जलेन प्रक्षाल्य त्रिराचम्य सोदकेनाङ्गुष्ठमूलेन द्विरोष्ठी संमृज्याऽऽर्द्राङ्गुलिभिरोष्ठी सकृदुपस्पृश्य दक्षिणहस्तेन सव्यं पाणिं पादौ च प्रोक्ष्याऽऽर्दाङ्गुलिभिः शिरश्चक्षुषी नासिके श्रोत्रे हृदयमालभ्य प्रत्यालम्भमपः संस्पृश्यैतत्कर्मागमाचमनं कृत्वा प्रभूतान्मागग्रान्दर्भानास्तीर्य पाण्योः पवित्रे धृत्वा दक्षिणोत्तरी पाणी पादौ च कृत्वैवंभूतस्तेषु दर्भेषु प्राङ्मुख एवाऽऽसीनः प्रणवमुच्चार्य भूर्भुवः सुवरिति तिस्रो व्याहृतीः पठित्वा, भूस्तत्सवितुर्वरेण्यम् । भुवो भर्गो० महि । सुवाधिक यात् । भूर्भुवस्तत्सवि० महि । सुवर्षि० यात् । भूर्भुवः सुवस्तत्सवि० महि । धियो० यात् । इत्येवं व्याहृतिवर्जितां वा पच्छोऽर्धर्चशोऽनवानं गायत्रीमधीत्य द्यावापृथिव्योः संधिमीक्षमाणः संमील्य वा यथा युक्तमात्मानं मन्येत तथा युक्त इषे त्वेति काण्डं प्रपाठकमात्रमनुवाकमा वा मनसा यथाशक्त्यधीत्य प्रज्ञातं निधाय नमो ब्रह्मण इति परि. धानीयामृचं त्रिः पठित्वा प्रणवमुच्चारयेत् । अत्र ब्रह्म भूर्भुवः सुवः, ॐ शान्तिः शान्तिः शान्तिः, इति । ततोऽप उपस्पृश्य पूर्वोक्तं कर्माङ्ग. माचमनं कृत्वा प्रमादादिति विष्णुं स्मरेन् । ततो गृहमागत्य मष्टिमात्रम. नमपि कस्मैचिद्राह्मणाय दक्षिणां दद्यात् । एवमेव दिनान्तरे विरामोत्तरवेदमारभ्य पठेत् । एवरीत्या संहितां ब्राह्मणमारण्यकं च पठेत् ! शिक्षा कल्पो व्याकरणं ज्यौतिषं छन्दो निरुक्तमित्यङ्गानि. तत्ताईने वेदाध्ययनोत्तरमेव क्रमेण प्रज्ञातदेशादारभ्याध्ये तव्यानि । पुराणेतिहासादीनां वेदार्थोपबृंहकत्वादङ्गेवान्तीवादेतल्याटोऽपि प्रज्ञानप्रदेशादारभ्यैव दिनान्तरे कार्यः । आरण्पकमपाठकेवु मध्ये विरामेऽपि तत्तलपाठकस्यो..
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com