________________
१४८
संस्कारपद्धताततः पारायणकर्ताऽऽचम्य प्राणानायम्य देशकालौ संकीर्त्यामुशमणा वृतोऽहमृत्विकर्म करिष्य इति संकल्प्य स्थण्डिलकरणादि विधाय बलवर्धननामानमाथि प्रतिष्ठापयामीति लौकिकायि स्थापयेत् । लतो ध्यात्वा समित्रयमादाय श्रद्ध एहीत्यादि प्राणायामान्तं कृत्वा वेदपारायगोपाकरणहोमकर्मणि या यक्ष्यमाणा इत्यादि व्याहृत्यन्तमुक्त्वा प्रधानहोमे प्रजापति काण्डर्षिमित्यादि सदसस्पतिं चाऽऽज्येन यक्ष्य इत्यन्तमुक्त्वा जयोपहोमे चित्तं चित्तिमित्यादि व्याहृतिहोमान्तं कृत्वा प्रजापतये काण्डर्षये स्वाहेत्यादिप्रधानाहुती त्वा जयोपहोमादि सर्व होमशेष समापयेत् । नात्र त्रिवृदन्नहोमः । ततो ब्राह्मणान्संपूज्य कर्मसागुण्याय विष्णुं संस्मृत्य दर्भासनोपविष्टो दर्भपाणिः प्राङ्मुख उपविश्याऽऽचम्य प्राणानायम्य प्रणवमुच्चार्य वाम्यत इषे त्वेत्यादिकं यथापाठं साङ्ग वेदपारायणमारभेत । प्रश्नान्तेऽनुवाकान्ते वा विरमेत् । प्रत्यहं प्रहरद्वयपर्यन्तं यावत्पारायणं भवति तावत्कर्तव्यम् । अतित्वरायां साधप्रहरद्वयपर्यन्तम् । आरण्यकमपाठकेषु मध्ये विरामेऽपि तत्तत्पाठकस्योत्तरां शान्ति कुर्यात् । द्वितीयदिने पूर्वा शान्ति कृत्वा कृतान्तादारभेत । कर्मसमाप्त्यन्तं ब्रह्मचर्यमधःशयनं स्वल्पं हविष्याशनं च कार्यम् । शक्तौ सत्यामुपोषणम् । पतितरजस्वलादिसंभाषणं तत्समक्षमध्ययनं च न कुर्यात् । ऋत्विकर्तृके पारायणेऽपि पारायंणकारयित्राऽपि नियमाः कार्या एव ।
इति वेदपारायणोपाकरणप्रयोगः ।
अथ वेदपारायणोत्सर्जनप्रयोगः । पारायणकर्ता समाप्ने पारायणे प्राचीमुदीची वा दिशमुपनिष्क्रम्यापा समीपे शुचौ देश उपविश्याऽऽचम्य प्राणानायम्य देशकालो संकीर्त्य मया कृतस्य वेदपारायणस्य साङ्गतासिद्धिद्वारा श्रीपरमेश्वरप्रीत्यर्थ वेदपारायणोत्सर्जनाख्यं कर्म करिष्य इति संकल्पं कुर्यात् । यदा तु स्वकर्तृकमेव पारायणं तदा गृह्यानो होमस्य कर्तव्यत्वात्तदर्थ गमनवेलायामेव पूर्ववदानं समारोप्य तेन सहैव गच्छेत् । ततस्तदङ्ग गणपतिपूजनं पुण्या० मातृ• नान्दी० च कुर्यात् । तत ऋत्विक्पूर्वोक्तरीत्या स्नान. विधि देवर्षिपितृपूजनं च कुर्यात् । ततोऽपरेण वेदिमनिमुपसमाधायेत्यादि प्राणायामान्तं कृत्वा वेदपारायणोत्सर्जनहोमकर्मणि या यक्ष्यमाणा
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com