SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ वेदपारायणोपाकरणप्रयोगः । श्रावणे मास्युपाकर्मप्रारम्भे विप्रसंनिधौ । ब्रीहितण्डुलापिष्टानां फ्लाशीत्या विनिर्मितम् ।। घृतवर्तिसपायुक्तं विमले कास्यभाजने । स्थापितं तण्डुलप्रस्थयुक्पूगीफलसंयुतम् ॥ मातुलिङ्गश्रीफलादिपञ्चसंख्यफलैर्युतम् । अवैधव्यसुपुत्रत्वदीर्घायुःश्रीमुखातये ॥ अभीष्टस्यास्तु मे प्राप्तिर्भवेऽस्मिंश्च भवान्तरे । श्रावण्यां श्रवणः च समायामग्निसंनिधौ । सभादीपं प्रदास्यामि तुभ्यं विष सदक्षिणम् ।। इति सदक्षिणं विप्राय दद्यात् । प्रतिगृहामीति विप्रः । एवं पञ्चवर्षपर्यन्तं श्रावण्यां पौर्णमास्यां दीपदानं कृत्वोद्याफ्नं कुर्यात् । __ पञ्चवर्षपर्यन्तं कृतस्य सभादीपदानकर्मणः संपूर्णताया उद्यापनं करिष्य इति संकल्प्य गणपतिं संपूज्य पञ्चप्रस्थसंमितानि पञ्च धान्यानि पश्चसु पात्रेषु भूमौ वा निधाय मध्यस्थधान्यराशौ प्रस्थपरिमितं तण्डुलपूरित पात्रं निधाय तत्र दीपं संस्थाप्य तत्समीपे यथासंभवं सुवर्णनिर्मिते रजतनिर्मिते वा दीपपात्रे यथासंभवसुवर्णनिर्मितां वर्तिकां निधाय तत्समीपे. कासवर्तिकां घृताभ्यक्तां निधाय दीपद्वयं प्रज्वाल्य दीपपात्रद्वयं यज्ञोपवीतेन वेष्टयित्वा वस्त्रद्वयं समीपे संस्थाप्य दीपं विमं च संपूज्य सभादीपदानपूर्णताया इमं सोपस्कर सदक्षिणं सभादीपं संप्रददे न ममति दद्यात् । इति सभादीपदानम् । अथ वेदपारायणोपाकरणप्रयोगः । कर्ता कृतनित्यक्रियः प्राङ्मुख उपांवेश्याऽऽचम्य प्राणानायम्य देशकालो संकीर्त्य मम सकलपापक्षयपुत्रधनधान्य स्वर्गान्य तमकामनासि. द्विद्वारा श्रीपरमेश्वरप्रीत्यर्थ स्वशाखात्मकवेदस्य पारायणं करिष्य इति संकल्पं कुर्यात् । ततस्तदङ्ग गणेशपूजनं पुण्याहवाचनं मातृ० नान्दी. श्राद्धं च कुर्यात् । ततोऽमुकावरान्वितामुकगोवोत्पन्नोऽमुकशर्माऽहममुकप्र० तामुकगो० नममुकशाखाध्यायिनममुकशर्मार्ण. वेदपारायणार्थम विजं त्वां वृण इत्युत्विग्वरणं कुर्यान्मधुपर्क च । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034602
Book TitleSanskar Paddhati
Original Sutra AuthorN/A
AuthorBhaskar Shastri, Sudev Shastri
PublisherVinayak Ganesh Apte
Publication Year1924
Total Pages262
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy