________________
उत्सर्जनप्रयोगः।
१४५ मुवर्दै । भूर्भुवः सुवर्देवांस्त० मीति देवतीर्थेन प्राङ्मुखो यज्ञोपवीत्ये. केकाञ्जलिना देवान्संतर्पयेत् । विश्वामित्रादयो य ऋषयस्तानषींस्त० । भूर्जपीस्त० । भुवषींस्त० । सुवर्ऋषींस्त० । भूर्भुवः सुवर्कषीस्त० मीति प्राजापत्यतीर्थेनोदङ्मुखो निवीती द्वाभ्यां द्वाभ्यामञ्जलिभ्यामृषीस्तर्पयेत् । वैशम्पायनादयो ये पितरस्तापितस्तर्पया० । भूः पितूंस्त० । भुवः पितस्त० । सुवः पितृस्त । भूर्भुवः सुवः पितस्त० मीति पितृतीर्थेन दक्षिणामुखः प्राचीनावीती त्रिभिस्त्रिभिरञ्जलिभिः पितूंस्तर्पयेत् । ततो ये के चास्मत्कुले० डनोदकामति परिधानीयं निष्पीड्य यज्ञोपवीती यन्मया दूषितं० तर्पयाम्यहमिति यक्ष्मतर्पणं कृत्वा
ज्ञानतोऽज्ञानतो वाऽपि यन्मया दुष्कृतं कृतम् ।
तत्क्षमस्वाखिलं देवि जगन्मातर्नमोऽस्तु ते ।। इति नदी क्षमाप्य स्वयमेव देहे शुष्के सति केशजले च सुते शुष्कं वस्त्रं त्रिरवधूयोदक्पाग्वा विस्तार्य परिदध्यात् । परिहितमाः वस्त्रं नाभेरूर्वमेवोत्तारयेत् । ततस्ताहगेवोत्तरीयम् ।।
ततो भस्मधारणम् । तदिधिः-तत्पुरुषायति भस्म समुद्धृत्ये शानः सर्वविद्यानामिति विशोध्य त्र्यम्बकं यजामह इत्यादायाऽऽपो हि ठेति त्रिभिर्जलं तत्राऽऽनीयानिरिति भस्मेत्यभिमन्य पञ्चाक्षरेण मन्त्रेण ललाटहृदयनाभिकण्ठांसद्वयवाहुद्वय कूपरद्वयप्रकोष्ठद्वयपृष्ठशिरःसु भस्म लेपयेत् । ततो हस्तौ प्रक्षाल्य देवर्षिपितृपूजनं कुर्युः । सर्वे यज्ञोपवीतिनः परस्परं दर्भान्सव्यहस्तेन संप्रयच्छन्त उपलिते प्राक्पवणे देशे दक्षिणहस्तेन त्रिभिस्त्रिभिर्दभैरुदगपवर्गाण्यासनानि कल्पयन्ति । ब्रह्मण आसनं कल्पयामीत्यादि । ततो निवीतिनो देवानामुत्तरत उदीचीननवणे देश उदगग्रैस्त्रिभिस्त्रिभिर्दभैः प्रागपवर्गाण्यासनानि कल्पयन्ति । विश्वामित्रायाऽऽस० मीति । वसिष्ठकश्यपयोमध्येऽरुन्धत्या आ० । देवेभ्यो दक्षिणतोऽगस्त्याय प्रागग्रमासनम् । अगस्त्यस्य दक्षिणतः प्रागस्त्रिभिस्त्रिभिर्दभैरुदगपवर्गाणि कृष्णद्वैपायनादीनामासनानि कल्पय. न्ति । रुद्रासनकल्पनोत्तरमुदकस्पर्शः। ततः प्राचीनावीतिनः कृष्णद्वैपायनादीनां दक्षिणतो दक्षिणाय॒स्त्रिभिस्त्रिभिर्दभैः प्रत्यगपवर्गाणि वैशम्पायनादीनामासनानि कल्पयन्ति । ततः सर्वे ब्रह्मणे नमो ब्रह्माणमावाहयामीत्येवं तत्तनाममन्त्रैर्देवर्षिपितृनावाहयेयुः । ततो ब्रह्मणे स्वाहेत्यायुः
१९
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com