________________
१४२
संस्कारपद्धतीतीर्जुहुयात् । एतद्धोमाकरणे नाऽऽज्यसंस्कारः । पञ्चगव्यस्य पर्यग्निकरणं भवत्येव । ततः परिस्तरणानि विसृज्योत्तरपरिपेकं कुर्यात् ।
इति ब्रह्मकूर्चहोमप्रयोगः ।
अथोपाकरणप्रयोगः। कर्ता कृतनित्यक्रियः पवित्रपाणिराचम्य प्राणानायम्य देशकालो संकीर्त्याधीतानां छन्दसामध्येष्यमाणानां चास्थानोच्छासादिजनितयातयामतानिरासपूर्वकाप्यायनसिद्धिपुनर्वेदग्रहणाधिकारसिद्धिद्वारा श्रीपरमेश्वरप्रीत्यर्थ वेदोपाकरणाख्यं कर्म करिष्य इति संकल्पं कुर्यात् । द्वितीयाद्युपाकरणे त्वध्येष्यमाणानां छन्दसामित्यायेव संकल्पः । शिष्यसत्वे त्वेभिः शिष्यैः सहेत्यूहः । उपाकरणसंकल्पः सर्वैरपि कार्यः । उपाकर्मप्रथमप्रयोगाङ्गभतं गणपतिपूजनं पुण्याहवाचनं मातृ० नं नान्दी. श्राद्धं च तत्पित्रादिभिः कारयेत् । प्रथमोपाकर्म भद्राव्यतीपाताधिमासा. स्तादिषु न भवति ।
तत आचार्य उपाकर्माङ्गभूतहोमार्थ स्थण्डिलस्य गोमयोपलेपनोद्धननादिसंस्कारं विधाय बलवर्धननामानमानि प्रतिष्ठाप्य प्रज्वाल्य ध्यायेत् ।
ततः समित्रयमादाय श्रद्ध एहीत्यादि प्राणायामान्तं कृत्वोपाकरणहोमकर्मणि या यक्ष्यमाणा इत्यादिव्याहृत्यन्तमुक्त्वा प्रधानहोमे प्रजापति काण्डपि सोमं काण्डर्षिमग्निं काण्डपि विश्वान्देवान्काण्डपन्सिावित्रीमृग्वेदं यजुर्वेदं सामवेदमथर्ववेदं सदसस्पति चाऽऽज्येन यक्ष्ये । यज्ञोपवीतहोमे परमात्मानं यज्ञोपवीतेन यक्ष्ये । जयोपहोमे चित्तं चित्तिमि. त्यादि । पात्रासादन आज्यासादनोत्तरमुपवीतासादनम् । व्याहृतिहो. मान्ते-प्रजापतये काण्डर्पये स्वाहा । प्रजापतये काण्डर्षय इदं० । सोमाय काण्डर्षये स्वाहा । सोमाय काण्डर्पय इदं० । अग्नये काण्डर्षये स्वाहा । अग्न र्षय इदं० । विश्वेभ्यो देवेभ्यः काण्डषिभ्यः स्वाहा । विश्वेभ्यो देवेभ्य: काण्डर्षिभ्य इदं० । इति चतुरः काण्डपञ्जुि. हुयात् । ततः-सावित्र्यै स्वाहा । साविच्या इदं । ऋग्वेदाय स्वाहा । ऋग्वे.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com