SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ ब्रह्मकूर्चहोमप्रयोगः। यदि द्वितीयो गौणकाले न कृतम्तदा द्वौ विच्छिन्नौ तृतीयस्थालीपाकेन सह कायौं । अन्न रितावमुकस्थालीपाकावमुझस्थालीपाकेन सह तन्त्रेण करिष्य इति संकलक चरुं परित्वा यथादैवतं विभज्य दोपहत्य सकृदवदाय जुहोति-अग्नये पथिकृते । अग्नये श्वानराय० । अग्नये । अग्नये स्विष्टकृते । इत्याहुतिचतुष्टयं हुत्वाऽन्यत्समा रम् । यदि तृतीयस्थालीपाकं गौणे न करोति तदा पुनराधानं कुर्यात् । पौर्णमास्या पथिकृदपावास्यायां श्वानर इति द्रष्टव्यम् । इत्यन्तरितस्थालीपाकप्रयोगः । अथ ब्रह्मफूर्चहोमप्रयोगः। फर्ता तीर्थादिपवित्रदेशे स्नातः शुक्लवासा गितेन्द्रियः शुचिराचम्य माणानायम्य देशकालौ संकीयोत्सर्जनोपाकर्मणी कर्तुमादौ शरीरशु. द्धयर्थं ब्रह्मकूर्चहोमं पञ्चगव्याशनं च करिष्य इति संकल्पं कुर्यात् । ततः स्थण्डिलं कृत्वा तद्गोमयेनोपलिप्योद्धननादिसंस्कारं विधाय तत्र विण्नामानं लौकिकमग्निं प्रतिष्ठाप्य प्रज्वाल्य ध्यात्वा समित्रयमादाय श्रद्ध एहीत्यादि प्राणायामान्तं कृत्वा ब्रह्मकूर्चहोमकर्मणि या यक्ष्यमाणा० ध्यामि । अग्नि पञ्चगव्याहुत्या यक्ष्ये । सोमं पश्च०। विष्णुं तिसृभिः पञ्च०। रुद्रं पञ्च । अत्रोदकस्पर्शः। सवितारं पञ्च० । ब्रह्म पश्च० । परमात्मानं प्रणवन पञ्चगव्यचतुर्थभागेन यावत्य आहुतयो भवन्ति तावतीभिः पञ्चगव्याहुतिभिर्यक्ष्य इत्यन्तमुक्त्वा समिधोऽनावाधायाग्निं परिस्तीर्य दी सप्तपत्रात्मकान्हरितानक्षतान्केनचिद्दर्भेण बद्धान्दर्भानाज्यस्थाली पञ्चगव्यार्थ पानाद्यन्यतमं पात्रमुपवेषं संमा० अव० आज्यं० पश्चग. व्यानि समिधं चाऽऽसाद्य पवित्रे कृत्वा मोक्षणीः संस्कृत्य पात्राणि प्रोक्ष्य दर्वी दर्भाश्च संमृज्य पञ्चगव्यं निष्पाद्याऽऽज्यविलापनादिपवि. त्राभ्याधानान्तं कुर्यात् । पर्यनिकरणकाले पञ्चगव्यस्यापि पर्यग्निकरणम् । ततोऽदितेऽनुमन्यस्वेति परिषेक कृत्वाऽऽसादितां समिधमाधाय पूर्ववत्प्रधानाहुतीर्हत्वाऽवशिष्टं पञ्चगव्यं प्रणवेनाऽऽलोडय प्रणवेनाभिमन्त्र्य प्रणवेन सर्व पिवेत् । ततो हस्तपादमुखप्रक्षालनं कृत्वा पवित्रे स्यक्त्वा द्विराचम्यान्ये पवित्रे धृत्वा व्यस्तसमस्तव्याहुतिनिश्चतस्र आहु. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034602
Book TitleSanskar Paddhati
Original Sutra AuthorN/A
AuthorBhaskar Shastri, Sudev Shastri
PublisherVinayak Ganesh Apte
Publication Year1924
Total Pages262
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy