________________
आग्रयणस्थालीपाकप्रयोगः ।
१३५
2
एना देवताः सद्यो यक्ष्य इत्युक्त्वा समिघोनावाधायोत्तरेणानिं दर्भासंस्तीर्य तेषु स्रुचं सुत्रमाज्यस्थालीं प्रोक्षणीपात्रमुपवेषं संमार्गद अब० आज्यं पञ्च समिधश्वाऽऽसाद्य तूष्णीं परिषिच्य स्रुचि सुत्रेण पञ्च गृहीत्वा पञ्च समिधोऽभ्याधाय, ॐ शतायुधाय० विश्वा स्वाहा । इन्द्रायेदं । ये चत्वारः० सर्वे स्वाहा । थावापृथिवीभ्यामिदं० । ग्रीष्मो हेमन्त० स्याम स्वाहा | ग्रीष्माय हेमन्ताय वसन्ताय शरदे वर्षाभ्यश्चेदं०| इदुवत्सराय० अहताः स्याम स्वाहा । इदुवत्सराय परिवत्सराय संवत्सराय चेदं० । भद्रान्नः श्रेयः ० स्योनः स्वाहा | देवेभ्यः पितवे चेदं० । इति पञ्चाज्यानीरमेदक्षिणतस्तिष्ठन्त्वा स्थालीपाकपात्रतः प्रोक्षणीपात्रमादाय प्रोक्षणीः संस्कृत्य हविष्प्रोक्षणादि चतुःशरावपरिमितचरुश्रपणान्तं कुर्यात् ।
O
ततश्वर्वाभिघारणादि बर्हिष्यासादनान्तं कृत्वाऽदित इत्यादिभिर में परिषिच्याऽऽसादितामेकां समिधमभ्यादध्यात् । ततो मेक्षणेन चरोरुपहत्य, इन्द्राग्निभ्याए स्वाहा । इन्द्राग्निभ्यामिदं । ततः पुनस्तथैवोपहत्य वि श्वेभ्यो देवेभ्यः स्वाहा । विश्वेभ्यो देवेभ्य इदं० । पुनस्तथैवोपहत्य द्यावापृथिवीभ्या स्वाहा । द्यावापृथिवीभ्यामिदं० । ततो मेक्षणेनोत्तराधद्भूय उपहत्याग्नये स्विष्टकृते स्वाहा । अग्नये स्विष्टकृत इदं० |
ततः परिस्तरणानि विसृज्य दर्ग्या व्यस्तसमस्तव्याहृतिभिश्चतस्रः प्रायश्चित्ताहुतीर्हुत्वाऽदितेऽन्वमस्था इत्यादिभिरुत्तरपरिषेकं कृत्वा संस्थाजपेनाग्निमुपस्थायाग्रिं संपूज्य भस्म धृत्वाऽऽचार्याय दक्षिणां दत्वा कर्मसागुण्याय विष्णुं संस्मरेत् ।
ततो हुतशेषमिश्रितेन सव्यञ्जनेन नवान्नेन ब्राह्मणान्संभोज्य स्वयं प्राणाहुतिभ्यः प्राग्भद्रान्नः श्रेयः ० स्योन इति मन्त्रमुक्त्वा प्राणाहुत्यादिविधिना नवान्नमिष्टबन्ध्वादियुतो भुञ्जीत । इति व्रीह्याग्रयणस्थालीपाकप्रयोगः ।
अथ यवाग्रयणम् । तच्च वसन्ते । तत्र यवाग्रयणस्थालीपाकं करिष्य इति संकल्पवाक्यम् । नूतनयवमयश्चरुः । एतमु त्यं मधुना संयुतं यवमिति भद्रान्नः श्रेय इत्यस्य स्थाने मन्त्र इति विशेषः । अन्यत्समानम् । एतच्च यवाग्रयणं कृताकृतम् ।
अथ श्यामाकाग्रयणम् । श्यामाकाग्रयणस्थालीपाकं करिष्य इति
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com