________________
दर्शपूर्णमास स्थालीपाकप्रयोगः ।
ततो होमकर्ता निरुप्तदविषः समं भागचतुष्टयं कृत्वाऽयमग्नाविष्णुभ्या मयं सरस्वत्या अयं सरस्वतेऽयमग्नये भगिन इति क्रमेणाभिमृश्य चतसृषु स्थालीषूदकमानीय क्रमेण भागचयोध्या स्थालीरधिश्रयति । एकस्थलीपक्षे तत्रैवो. कं हविष्याविश्रपणम् । न वा निर्वापादि किंतु पन्याऽवघातमात्रं कारणीयम् । पर्यनिकरणं त्वस्त्येव । ततः स्रुवं दर्दी मेक्षणं च संमृज्याऽऽज्य संस्कारं कुर्यात् । तत्र हविषा सहाऽऽज्यस्य पर्यनिकरणमिति विशेषः । तत आसादितान्दर्भानग्नेः पश्चादास्तीर्थं तत्राऽऽज्यं निधाय शृतं चरुमभिघार्याssसादितोद्धरणपात्रमुपस्तीर्य तं समश उद्धृत्यायममाविष्णुभ्यामयं सरस्वत्या अयं सरतेऽयमग्नये भगिन इति क्रमेणोदक्संस्थं देवता निर्दिशेत् । ततोऽदितेऽनुमन्यस्वेत्यादिभिः परिषिच्य तूष्णीं समिघमाधाय प्रधानहोमं कुर्यात् । अग्नाविष्णुभ्यां स्वाहा । अग्नाविष्णुभ्यामिदं० | सरस्वत्यै स्वाहा | सरस्वत्या इदं० | सरस्वते स्वाहा । सरस्वत इदं ० । अग्नये भगिने स्वाहा । अनये भगिन इदं० ।
१३३
ततो दर्व्या वैशेषिकजयोपहोमं कुर्यात् । स्रुवेण दय द्वादशगृहीतं गृहीत्वा द्वादश जयाञ्जुहोति । पुनः सङ्गृहीत्वा ॐ प्रजापतिर्ज० भूत्र स्वाहेति जुहोति । प्रजापतय इदं० । ततश्वरोरुत्तरार्धात्सकृदुपहत्याग्नये स्विष्टकृते स्वाहा | अग्नये स्विष्टकृत इदं । ततः परिस्तरणानि विसृज्य समस्तव्याहृतिभिः प्रायश्चित्तहोमं कृत्वोत्तरपरिषेकं कृत्वा संस्थाजपेनोपस्थायाग्निं संपूज्य भस्म धृत्वाऽऽचार्याय मिथुनौ गावौ दक्षिणां दत्त्वाऽन्येभ्यो भूयसीं दत्त्वा ब्राह्मणान्भोजयित्वा कर्मसाद्रुग्याय विष्णुं संस्मरेत् । एते चतुर्होतृ होमसारस्वतहोमान्वारम्भणस्थालीपाकाः कृताकृताः । सूत्रेऽनुक्तत्वात् ।
इत्यन्वारम्भणस्थालीपाकप्रयोगः ।
अथ दर्शपूर्णमासस्थालीपाकप्रयोगः |
गृह्याः पश्चादुपविश्याऽऽचम्य प्राणानाथम्य देशकालौ संकीर्त्य दर्शपूर्णमासस्थालीपाकाभ्यां यक्ष्ये । तत्रेदानीं पूर्णमासस्थालीपाकेन यक्ष्य इति पौर्णमास्याम् । दर्शस्थालीपाकेन यक्ष्य इत्यमावास्यायाम् ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com