SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ १२६ संस्कारपद्धती-- जुहोमि स्वाहा । वायव इ० । ॐ सुवः श्रियं त्वयि जुहोमि स्वाहा । सूर्योयेदं० । ॐ भुर्भुवः सुवस्त्विर्षि त्वाय जुहोमि स्वाहा । प्रजापतय इदं०। इत्याहुतिचतुष्टयं मूनि हुत्वेमं म इत्यादिसंस्थाजपान्तं समानम् । नात्र त्रिवृदबहोमः। तत आसादितं जलपूर्ण कुम्भमग्नेः समीपे निधायोदकुम्भसहितं तं प्रदक्षिीकृत्यापरेणाग्निं शयनस्थानं कल्पयित्वा परिश्रित्य तत्र प्राक्शिरस्कामुदक्शिरस्कां वा भार्या शाययेत् । ततःॐ आभ त्वा पञ्चशाखेन शिवेनाभिद्विषावता । सहस्रण यशस्विना । हस्तेनाभिमृशामसि सुमनास्त्वाय । तस्या योनि दक्षिणेन हस्तेनाभिमृशति । ___ ॐ सं नाम्नः स हृदयानि सं नाभिः सं त्वचः। सं त्वा कामस्य योक्त्रेण युञ्जान्यविमोचनाय ।। इति संगमं करोति । ___ ॐ मामनुव्रता भव सहचर्या मया भव । ___ या ते पतिघ्नी तनूर्जारनी त्वेतां करोमि शिवा त्वं मह्यमधि क्षुरपविर्जारेभ्यः ।। तां पर्यालिङ्गति। मधु हे मध्विदं मधु जिह्वा मे मधुवादिनी। मुखे मे सारघं मधु दत्सु संवननं कृतम् ।। चाक्रवाक संवननं यन्नहीभ्य उदाहृतम् । ययुक्तो देवगन्धर्वस्तेन संवनिनौ स्वके । इति द्वाभ्यां तस्या मुखेन मुखं जुषते । ततः कर्मणः साङ्गतासिद्धयर्थमाचार्याय दक्षिणां दत्त्वाऽन्येभ्यो भूयसीं दत्त्वा कर्मसाद्गुण्याय. विष्णुं संस्मरेत् । इति चतुर्थीकर्म । अथ देवकमण्डपोद्वासनम्-तच्चाभुक्त्वा षष्ठातिरिक्तसमे दिवसे कुर्यात् । विषमे तु पश्चमसप्तमयोः कुर्यात् । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034602
Book TitleSanskar Paddhati
Original Sutra AuthorN/A
AuthorBhaskar Shastri, Sudev Shastri
PublisherVinayak Ganesh Apte
Publication Year1924
Total Pages262
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy