SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ १२४ संस्कारपद्धती --- च यथाविभवं गन्धपुष्पवस्त्रादिभिः पूजनमहं करिष्य इति संकल्स्य वरदिभ्यो यथाविभवं वस्त्रादिकं दत्त्वा कृतकन्यादान संपूर्ण फलावाविंशाभिबृद्धिद्वारोमा महेश्वरमीत्यर्थमरिणीपूजनं वरमात्रे तत्समायै वैरिश्यारूयवंशपात्रदानं च करिष्य इति संकल्प्य ऐरिणी वघुमादेवी महेशो गिरिजापतिः । अतस्त्वा पूजयिष्यामि ऐरिणीं सर्वकामदाम् || सवस्त्रां च सदीपांच शूर्यैः षोडशभिर्युताम् । वरमात्रे प्रदास्यामि कन्यादानस्य सिद्धये || इत्युक्त्वा तस्मिन्वंशपात्र उमामहेश्वरी संपूज्य तद्वेशपात्रं वरमात्रे तत्समायै वा दद्यात् । तत्र मन्त्राः वंशो वंशकरः श्रेष्ठो वंशो वंशसमुद्भवः । अनेन वंशदानेन तुष्टो वृद्धिं करोतु मे ॥ वंशपात्रमिदं पुण्यं वंशजातिसमुद्भवम् । वंशानामुत्तमं दानमतः शान्तिं प्रयच्छ मे । वरुपात्राणि सर्वाणि मया संपादितानि वै । उमाकान्ताय दत्तानि मम गोत्राभिवृद्धये ॥ वंशवृद्धिकरं दानं सौभाग्यादिसमन्वितम् । वस्त्रेणाऽऽच्छादितं पूर्ण फलहेमसमन्वितम् ॥ सर्वपापक्षयकरं नानाद्रव्यस्तु पूरितम् । दानानामुत्तमं दानमतः शान्तिं प्रयच्छ मे ॥ इति । ततः सदीपं वेशपात्रं तत्पितृमात्रादीनां शिरसि स्वयं धारयेत् । स्वस्ति वो मिमीताम् । स्वस्ति न इन्द्र इति द्वाभ्यां प्रतिमन्त्रम् । ततो दातैव कन्यां गृहीत्वा वरपित्राद्युत्सङ्गे पृथक्पृथगुपवेश्य प्रार्थयेत् । ↑ वर्षा स्वियं कन्या पुत्रवत्पालिता मया । इदानीं तव पुत्राय दत्ता स्नेहेन पाल्यतास् ॥ इति । वर्षानुरोधेनोः कर्तव्यः । वरमात्राद्युत्सङ्गे वधूमाता कन्यां तथैवोपवेश्य प्रार्थयेत् । ततो वरमात्रा बधूमात्रादितत्पक्षीय सुवासिनीभ्यः सकञ्चुक क्षुद्र शशूर्पायनानि वध्वा दापनीयानि आचारात् । ततो दाता कर्मसाध्याय विष्णुं संस्मरेत् । एतच्च सर्वे सपत्नीना भूवैव कार्यम् । इत्यैरिणीपूजनं दानं च । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034602
Book TitleSanskar Paddhati
Original Sutra AuthorN/A
AuthorBhaskar Shastri, Sudev Shastri
PublisherVinayak Ganesh Apte
Publication Year1924
Total Pages262
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy