________________
विवाहप्रयोगः।
१२३ सर्वमादाय प्रजापति मनसा ध्यायन , प्रजापतये स्वाहा । प्रजापतय इ० । तथैवोत्तरपार्श्वेन जुहोति । ततः परिस्तरणान्यनेरुत्तरतो विसृज्योचरपरिपेकं कुर्यात् ।
ॐ अनिर्मूर्धा दिवः ककुत्पतिः पृथिव्या अयम् ।
अपा रेतासि जिन्वति ।। स्वापग्ने पुष्करादध्यथर्वा निरमन्थत । मू| विश्वस्य वाघतः ॥ अयमग्निः सहस्रिणो वाजस्य शतिनस्पतिः ।
मूर्धा कवी रयीणाम् ॥ इति त्रिभिर्मन्त्रैरग्निमुपस्थाय प्रजापते न० इति प्रजापतिमुपतिष्ठते । ततः संस्थाजपं कृत्वाऽग्निं संपूज्य भस्म धृत्वा
श्रद्धा मेध यशः प्रज्ञा विद्या बुद्धिं श्रियं बलम् ।
आयुष्यं तेज आरोग्यं देहि मे हव्यवाहन ।। इत्याग्निं संप्रार्थ्य नमस्कृत्यानेन सायमोपासनहोमेन श्रीपरमेश्वरः प्रीयतामिति कर्मेश्वरायार्पयेत् ।
प्रातरौपासनहोमे तु प्रातरौपासनहोमं ब्रीहिभिहांध्यामीति संकल्पः । सूर्याय स्वाहा । सूर्यायेदं । प्रजापतये स्वाहा । प्रजापतय इ० । उद्धयन्त० तस्थुषश्चेति त्रिभिर्मन्त्रैः सूर्योपस्थानं कृत्वा प्रजापत्युपस्थानादि समानम् । अनेन प्रातरौपासनहोमेन श्रीपरमेश्वरः प्रीयतामिति विशेषः । इत्योपासनहोमप्रयोगः। ___ अथैरिणीपूजनं दानं च-मण्डपप्रतिष्ठादिनात्पाणिग्रहणादिनाद्वा चतुर्थे दिवसे रात्रौ तत्र भद्रादिसंभवे दिने शिष्टाचारप्राप्तं वरमात्रेऽभावे तत्समाय वा कन्यादारिण्याख्यवंशपात्रदान कार्यम् ।
सवत्रफलताम्बूलं दंपत्योःशवर्धनम् ॥ ऐरिण्याख्यं वंशपात्रं पकानैः परिपूरितम् । करकै रुद्रसंख्यैस्तु मुवर्णेन समन्वितैः ।
एतावदैरिणीरूपं कर्तव्यं किल मूरिभिः ।। इति । रुद्रसंख्यैरकादशसंख्यः । एवं संपाद्य सभार्य आचम्य प्राणानायम्य विवाहसंपूर्णफलावाप्तये वरस्य तत्पितृमात्रादीनां तत्पक्षीयाणा
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com