SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ विवाहप्रयोगः। नमो ब्रह्मेणः पुत्रेभ्यो देवेभ्यस्त्रं यस्त्रिशेभ्यो नमो ब्रह्मणः पुत्रपौत्रे. भ्योऽङ्गिरोभ्यो यस्त्वा ध्रुवम्च्युत्त५ सुपुत्र सपात्रं ब्रह्म वेद ध्रुवा अस्मिन्पुत्राः पौत्रा भवन्ति प्रेष्यान्तेवासिनो घसनं कम्बलानि कस५ हिरण्य५ स्त्रियो राजानोऽन्नमभयमायुः कीर्तिवं] यशो बलं ब्रह्मवर्चसमन्नाद्यमित्येतानि मयि सर्वाणि ध्रुवाण्यच्युतानि सन्तु | ध्रुवं त्वा ब्रह्म वेद ध्रुवोऽहमस्मिल्लोकेऽस्मिश्च जनपदे भूयासमच्युतं त्वा ब्रह्म वेद माऽहमस्माल्लोकादस्माच जनपदाच्योषि द्विषन्मे भ्रातृव्योऽस्मादस्माल्लो. कादस्माच्च जनपदाच्च्यवतामचेष्टं त्वा ब्रह्म वेद माऽहमस्माल्लोकादस्माच्च जनपदाच्चेष्टिषि द्विषन्मे भ्रातृभ्योऽस्मादस्माच्च जनपदा. च्चेष्टतामव्यथमानं त्वा ब्रह्म वेद माऽहमस्माल्लोकादस्माच्च जनपदाय. थिषि द्विषन्मे भ्रातृव्योऽस्माल्लोकादस्माच्च जनपदायथतां नभ्यं त्वा सर्वस्य वेद नभ्यमहमस्थ जनपदस्य भूयासं मध्यं त्वा सर्वस्य वेद मध्यमहमस्य जनपदस्य भूयास तन्ति त्वा सर्वस्थ वेद तन्तिरहमस्य जनपदस्य भूयास मेथीं त्वा सर्वस्य घेद मेथ्यहमस्य जनपदस्य भूयास नाभिं त्वा सर्वस्य वेद नाभिरहमस्य जनपदस्य भूयासं यथा नाभि: माणानां विषूवानेवमहं विषूवानेकशतं तं पाप्मानमृच्छतुं योऽस्मान्द्वेष्टि यं च वयं द्विष्मो भूयासि मामेकशतान्पुण्यान्यागच्छन्तु । इति ध्रुवमुपतिष्ठते । नक्षत्रादीनामभ्रादिना प्रतिबन्धेनादर्शनेऽपि तस्यां तस्यां दिश्युपस्थानं कर्तव्यम् । तत उपस्थानदेश एव मनस आह्लादकेन वचसा भार्या संभाष्य पुनः शाला प्रविश्य भार्यया सहा. परेणानिं प्राङ्मुख उपविशति । अथ गृहप्रवेशस्थालीपाकप्रयोगः-वर सभार्य आचम्य प्राणानापम्यामिं प्रज्वाल्य ध्यात्वा समिन्नयमादाय श्रद्ध एहीत्यादिप्राणायामान्तं कृत्वा गृहप्रवेशाङ्गभूताग्नेयस्थालीपाफयागकर्मणि ये यक्ष्यमाणे देवते ते परिग्रहीष्यामि । अमिमेकया चाहुत्या यक्ष्ये । अनि स्विष्टकृतमेकया हुतशेषचाहुत्या यक्ष्ये । एत्ते देवते सद्यो यक्ष्य इत्युक्त्वा व्याहृतिभिरग्नौ समिधोऽभ्याधायाग्निं परिस्तीर्योत्तरेणाग्निं दर्भानास्तीर्य तेषु शूर्प कृष्णाजिनमुलूखलं मुसलं चरुस्थाली मेक्षणं तण्डुलप्रस्कन्दनार्थ पात्रं दीमाज्यस्थाली प्रोक्षणीपात्रं हविरासादनार्थ दर्भानुपवेषं संमार्गदर्भानव-- ज्वलनदर्भानाज्यं समिधं चाऽऽसादयेत् । मोक्षणीः संस्कृत्याऽऽसादि. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034602
Book TitleSanskar Paddhati
Original Sutra AuthorN/A
AuthorBhaskar Shastri, Sudev Shastri
PublisherVinayak Ganesh Apte
Publication Year1924
Total Pages262
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy