SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ १२० संस्कारपद्धतौहाग्निं सर्वमेकस्मिन्पात्रे भस्मना सह निक्षिप्य जायापत्योः पृष्ठतो हरन्ति । अयं चाग्निर्विवाहहोममारभ्य यावज्जीवं धार्यः । अथ वरः स्वगृहद्वारं माप्य दक्षिणं पादमग्रेऽतिहर देहलिं मा धिष्ठा इति भार्या संशास्ति । सा दक्षिणं पादमग्रे कृत्वा देहलीमनधिष्ठायैव गच्छति । ततो गृहं प्रविश्य तत्पूर्वाध्यशालायामग्न्यायतनं परिकल्प्य तत्पश्चात्सभार्यः प्राङ्मुख उपविश्याऽऽचम्य प्राणानायम्य देशकालौ संकीर्त्य मम विवाहानेह्यत्वोत्पादनद्वारा श्रीपरमेश्वरप्रीत्यर्थ गृहप्रवेशाख्यं कर्म करिष्य इति संकल्पं कुर्यात् । ततो गणेशं संपूज्योद्धननादिसंस्कृत आय. तने विवाहाग्निं तूष्णीं प्रतिष्ठाप्प प्रज्वलितं कुर्यात् । ततोऽपरेणाग्निं लोहितमानडुहं चर्म प्राचीनग्रीवमुत्तरलोमाऽऽस्तीर्य तदभावे कुशानास्तीर्य * इह गावो निषीदन्त्विहावा इह पूरुषाः । इहो सहस्रदक्षिणोऽपि पूषा निपीदतु ॥ । इति तस्मिञ्जायापती प्राङ्मुखावुदङ्मुखौ वोपविशतः। प्राङ्मुखत्वपक्षे पत्युदक्षिणतो भार्या । उदङ्मुखत्वपक्षे तस्य पृष्ठतो वामभागे वा । उभयोमन्त्रः । इत आरभ्य नक्षत्रोदयपर्यन्तं वाग्यतावासाते । नक्षत्रोदये सति प्राङ्मुखावुदङ्मुखौ वा भूत्वा दिश उपनिष्ठते । ॐ देवीः षडुरुिरुणः कृणोत विश्वेदेवास इह वीरयध्वम् । ततो नक्षत्राणि-ॐ मा हास्म हि प्रजया मा तनूभिारति । ॐ मारधाम द्विषते सोमराजनिति चन्द्रमसम् । ततः सप्तर्षीनॐ सप्तर्षयः प्रथमां कृत्तिकानामरुन्धतीं ये ध्रुवतार ह निन्युः । पत्तिकामुख्ययोगं वहन्तीयमस्माकं भ्राजत्वष्टमी ।। इति । ॐ ध्रुवक्षितिर्धवयोनिध्रुवमसि ध्रुवतस्तिथम् । त्वं नक्षत्राणां मेथ्यसि स मा पाहि पृतन्यतः ॥ ॐ नमो ब्रह्मणे ध्रुवायाच्युतायास्तु नमो ब्रह्मणः पुत्राय प्रजापतये Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034602
Book TitleSanskar Paddhati
Original Sutra AuthorN/A
AuthorBhaskar Shastri, Sudev Shastri
PublisherVinayak Ganesh Apte
Publication Year1924
Total Pages262
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy