________________
संस्कारपद्धतीमजा मे कामः समृध्यताम् । वरः-ॐ यशो मे कामः समथ्यताम् । सतो वधूर्वराञ्जलिं द्विरुपस्तीर्य द्विस्तण्डुलैरापूर्य द्विरभिघारयेत् । ततो दाताऽन्यो वा पूविध्वजालिमापूरयेत् । ततो दातैव पूर्ववद्धिरण्यं निधाय ववजलिं वराजलौ निधाय पूर्ववद्वाक्यानि पठेत् । ततो वरो यत्रो मे० इति वधूमूर्धन्यजलिस्थानक्षतानारोपयेत् । ततो वधूः-भगो मे० इति वरमूर्धन्यजलिस्थानक्षतानारोपयेत् । बरः-धर्मो मे कामः समृध्यताम् । वधः-श्रियो मे कामः समृध्यताम् । वरः-यशो मे कामः समृध्यताम् । वधूः- प्रजा मे कामः समृध्यताम् । ततो दरः स्वशिरःस्थं पुष्पमादाय घतयुतक्षीर आप्लाव्य तेन वध्वा ललाटे तिलकं कुर्यात् । एवं वधरपि स्वशिरःस्थेन पुष्पेण वरललाटे तिलकम् । ततो वधः स्त्रकण्ठस्थां पुष्पमालां वरकण्ठे क्षिपेत् । वरः स्व.ण्टस्थां वधूकण्ठे । ततो वरपक्षसुवासिन्यो वधूवरौ प्राङ्मखावुपदेश्य नीराजनपूर्वकमाचारप्राप्तमष्टपुत्रीसंज्ञकं
खवयं सकञ्चुकं मङ्गलसूत्रं च व समर्थ तयोरेकं परिधाप्याऽपरमुत्तीयं कारयेयुः । ततः कञ्चुकी परिधापयेयुः । ततो वरः
माङ्गल्यतन्तुनाऽनेन भर्तृजीवनहेतुना ।
कण्ठे बध्नामि सुभगे सा जीव शरदां शतम् ॥ इति मन्त्रेणेष्टदेवतां संस्मरंस्तत्सूत्रं वधूकण्ठे वनीयात् । आयुष्यं वर्चस्यमित्यादिमन्त्रैस्तां भूपयेच्च । ततो हरिद्राखण्डयुतानि पञ्च पूरी( ग )फलानि दृढान्याचाराल्लड्डकयुतानि पात्रे निधाय वधूवरावा. वाहनादिदक्षिणान्तरुपचारैर्गणानां त्वा० आ तू न इन्द्रेति मन्त्राभ्यां विवाहव्रतरक्षणार्थ गणपतेः पूजां कुर्याताम् । अत्र ब्राह्मणेभ्यो गणपति. प्रीतये यथाविभवं दक्षिणा देया । ततः पुरोधा विवाहवतरक्षकं गणपति. मनुस्मृत्य हरिद्राखण्डयुतौ साक्षतलड्डुको तयोर्वस्वमान्ते पृथक्पृथक्वनीयात् । वधूवरौ विवाहबतसमाप्त्यन्तं तद्ग्रन्थिद्वयं न विसृजेताम् । . ततः पुरोधा नीललोहित० बृहत्सामेति मन्त्रेण च तयोरुत्तरीमान्ती मिथो वनीयात् । ततः सभार्यो दाता वृद्धाः पुरंध्यो ज्ञातयो बान्धवाश्च क्रमाद्यथाचारमाशीभिगदक्षतारोपणं कुर्युः । ततो वधूः पात्रस्थसिततण्डु. लपुजत्रय उदक्संस्थं नाममन्त्रैर्महालक्ष्मी पार्वती शची च क्रमेणाऽऽवाह्य दक्षिणान्तैरुपचारैः पूजयेत् । ततो वधूः सौभाग्यायभिवृद्धये महालक्ष्मीपार्वतीशचीप्रीत्यर्थ हरिद्राजीरकसौभाग्यद्रव्यपूरितवंशपात्रवायनानि मुनासिनीः संपूज्य नाभ्यो दद्यात् । नत्र मन्त्राः--
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com