SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ विवाहप्रयोगः । लक्ष्मीप्रिया च लक्ष्मीदा लक्ष्मीव सुजनप्रिया । सौभाग्यदा वरस्त्रीणां हरिद्रे श्री: सदाऽस्तु मे || इति हरिद्रायाः ।। जरा नो जायते यस्मान्मण्डनं शुभकर्मसु । तरमा जीरकदानेन प्रीयतां गिरिना मम ।। इति जीरकस्य । कञ्चुकीवस्त्रयुग्मैश्च तथा कर्णावतंसकः। कण्ठमूत्रैश्च भूपाभिः प्रीयतां निमिनन्दिनी ।। इ० सौभा० द्र० पू०। एतानि सदक्षिणानि देयानि । तनो. द्विजैराशिपो देयाः । नवो नवो. भ० यथा ह तद० मा नो अरातिर ० भद्रं कर्णेभिः० ४ । ततः सतूर्यघोषो वसे वध्वा सह वेद्यां प्राङ्मुख उपविशेत् । वधूः स्ततो गौरीहर समीपं गत्वोपविशेत् । __ अथ विवाहहोमः--वर आचम्य प्राणानायम्य देशकालौ संकीय मत्पतिगृहीतवद्देश्यकभार्यात्वसिद्धिपूर्वकाग्नाचौपासनत्वसिद्धिद्वारा श्रीपरमेश्वरप्रीत्यर्थं विवाहहोम करिष्य इति संकल्पं कृत्वा स्थण्डिलोल्लेखनादि कृत्वा तत्र योजकनामानमग्निं प्रतिष्ठापयामीति मथितं वधूवरयो, वेद्यारोहणात्पूर्वमेव सुवासिन्या श्रोत्रियागारादाहृत्य वेद्या उत्तरतोऽधोभागे स्थापितं लौकिकाग्निं वा प्रतिष्टाप्य प्रज्वाल्य ध्यात्वा समित्रयमा दाय श्रद्ध एहीत्यादि प्राणायामान्तं कृत्वा विवाहहोमकर्मणि या यक्ष्य. माणा इत्यादिव्याहृत्यन्तमुक्त्वा प्रधानहोमेऽग्निं वरुणं चैकैकयाऽऽज्या। भनि गार्हपत्यमेकयाऽऽज्याहुत्या० । अग्निमेकयाऽऽज्या० । दिवं वायुमश्विनी सवितारं वृहस्पति विश्वान्देवांश्चकैकयाऽऽज्या० । अग्निं वरुणं चैकैकयाऽऽज्या० । अयासमग्निमेक० । प्रजापतिमेक० । लाजहोमेऽग्नि तिमृभिर्लाजाहुतिभिर्यक्ष्ये । अग्निं स्विष्टकृतमेकया हुतशेषाज्या० क्ष्य इति वदेत् । ततो जयहोमे चित्तं चित्तिमित्यादि काम गर्थवमाधारप्सरसों भुत. नस्य पत्तिं चैकैकयाऽऽज्या०क्ष्य इत्यन्तमुक्त्वा प्रायश्चित्तहोमेऽग्निं त्रिभिरित्यादि। पात्रासादने प्रादेशमात्रमश्मानं बीयादिबीजानि सपल्लवमुदकपूर्ण सुभूषितं कलशं दीमाज्य स्थाली प्रणीताप्रणयनं प्रोक्षणीपात्रमुपवेषं संमार्गद भांनिध्म बहिरवज्य सनदर्भानाज्यं लाजांश्च सुगपदेवाऽऽसा. दयेत् । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034602
Book TitleSanskar Paddhati
Original Sutra AuthorN/A
AuthorBhaskar Shastri, Sudev Shastri
PublisherVinayak Ganesh Apte
Publication Year1924
Total Pages262
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy