________________
११२
संस्कारपद्धतीअयं दासो मया तुभ्यं श्रीवत्स प्रतिपादितः । सदा कर्मकरो हृयो मम शान्ति प्रयच्छतु ॥ इति दासस्य । सर्वसस्याश्रया भूमिर्वराहेण समुद्धता। अनन्तसस्यफलदा मम शान्ति प्रयच्छतु ।। इति भूमेः । अनूनं शयनं नित्यमनूनां श्रियमुन्नतिम् । सौभाग्यं देहि मे नित्यं शय्यादानेन केशव ।।
इति सोपस्करशय्यायाः। सौवर्ण हस्तवलयं रूपकान्तिसुखपदम् । विभूषणं प्रदास्यामि विभूषयतु मां सदा ।।
इति वलयादिभूषणानाम् । हिरण्यगर्भसंभूतं सौवर्ण चाङ्गुलीयकम् । सर्वप्रदं प्रयच्छामि प्रीतोऽस्तु कमलापतिः ॥ इत्यङ्गुलीयकस्य । क्षीरोदमथनोद्भूतं शुभदं कुण्डलद्वयम् । श्रिया सह समुद्भूतं ददे श्रीः प्रीयतां मम ।। इति कुण्डलयोः । हिरण्यगर्भगर्भस्थं हेमबीजं विभावसोः । अनन्तपुण्यफलदमतः शान्ति प्रयच्छतु ।। इति हिरण्यस्य । असुरेषु समुद्भतं रजतं पितृवल्लभम् ।
तस्मादस्य प्रदानेन रुद्रः संमीयतां मम ॥ इति रजतस्य । ततः कन्यादाता कन्यादानकर्मणः साङ्गतासिद्धयर्थं यथविभवं ब्राह्मणान्सुवासिनीश्च यथोपपन्नेनान्नेन भोजयित्वा भूयसी ब्राह्मणेभ्यो गन्धादिपूजनपूर्वकं दत्त्वा कर्मसाद्गुण्याय विष्णुं संस्मरेत् । इति कन्यादानप्रयोगः ।
अथाभिषेकादिप्रयोगः-पुरोधाः-आपो हि ष्ठा० च न इति स्वर्चितकलशस्थाः सुवर्णयुता अपोऽभिमन्य ताभिः सहिरण्यकुशद्वीपल्लवाभिरभिषिञ्चेत् । ॐ आ नः प्रजा जन० वृषु । समुद्रज्ये० आपो हि ष्ठा० इत्यभिषेकं कुर्यात् । ततः पुरोधा दुग्धाक्तेन द्विगुणेन श्वेतसूत्रेण वधूवरयोः कण्ठदेश ऐशानीमारभ्य चतुर्वारं प्रदक्षिणं संवेष्टय वधूवरयोः कटिदेशे तथैव वेष्टयेत् । तत्रैते शिष्टस्वीकृला मन्त्राः--
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com