SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ पात्रस्य । विवाहप्रयोगः। त्वाश्यां क्यो दात्रे मयो मह्यमस्तु प्रतिग्रहीने क इदं कस्मा अदात्कामः कामाय कामो दाता कामः प्रतिग्रहीता का समुद्रमाविश कामन त्वा प्रतिगृह्णामि कामतत्त एषा ते काम दक्षिणोत्तानस्त्वाऽऽङ्गीरसः प्रतिगृह्णातु । __इति पठित्वा ॐ स्वस्तीति पठेत् । ततो दाता जलपात्रभोजनपात्र. गोमाहिष्यश्वगजदासीदासभूशय्यालंकारादि यथाविभवं संकल्पपूर्वक वराय दद्यात् । तत्र दानमन्त्राः परापवादपैशुन्यादभक्ष्यस्य च भक्षणात् । उत्पन्नं पापं दानेन ताम्रपात्रस्य नश्यतु । इति ताम्रपात्रस्य । यानि कानि च पापानि जन्मोत्थानि कृतानि तु । कांस्यपात्रप्रदानेन तानि नश्यन्तु मे सदा ॥ इति कांस्यपात्रस्य । अगम्यागमनं चैव परदाराभिमर्शनम् । रौप्यपात्रप्रदानेन तानि नश्यन्तु मे सदा ॥ इति रौप्यपात्रस्य । जन्मान्तरसहस्रेषु यत्कृतं पातकं मया । स्वर्णपात्रप्रदानेन तानि नश्यन्तु मे सदा ।। इति स्वर्णपात्रस्य । यज्ञसाधनभूता या विश्वस्याघौघनाशिनी । विश्वरूपधरो देवः भीयतामनया गवा ॥ इति गोः । इन्द्रादिलोकपालानां या राज्यमहिषी प्रिया । महिषासुरजननी साऽस्तु मे सर्वकामदा ॥ इति महिष्याः । महार्णवसमुत्पन्न उच्चैःश्रवसपुत्रक । सोपस्करस्त्वं विप्राय दत्तः शान्ति प्रयच्छ मे ॥ इति खलीनायुपस्करसहितस्याश्वस्य । सुप्रतीक गजेन्द्र त्वं सरस्वत्याऽभिषेचितम् । इन्द्रस्य वाहनं शश्वत्सर्वदेवैः सुपजितम् ।। विप्र तुभ्यं ददामीमं तेन शान्ति प्रयच्छ मे ।। इति गजस्य । इयं दासी मया तुभ्यं श्रीवत्स प्रतिपादिता । सदा कर्मफरी वा यथेष्टं भद्रमास्तु मे ॥ इति दास्याः । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034602
Book TitleSanskar Paddhati
Original Sutra AuthorN/A
AuthorBhaskar Shastri, Sudev Shastri
PublisherVinayak Ganesh Apte
Publication Year1924
Total Pages262
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy