SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ विवाहप्रयोगः । दैत्येमन्दरिपुः कलिङ्गजननश्चाग्नीश्वरी देवते मध्ये वर्तुलगैन्द्रिकासुवदनः कुर्यात्सदा गङ्गलम् ॥ ३ ॥ जीवः सिन्धुपतिविधिः सुरपतिर्देवौ धनुनियोः स्वामी स्वाङ्गिरसस्तथोत्तरमुखो दीर्घ स्थितश्चोत्तरे । सूर्येन्दुक्षितिजप्रियो बुधसितौ शत्रू च पीतप्रभो व.णद्वयद्रिभवाङ्कके च शुभदः कुर्यात्सदा मङ्गलम् ॥ ४ ॥ एवमन्यानपि मङ्गलश्लोकान्पठेयुः । ततः तदेव लग्नं सुदिनं तदेव ताराबलं चन्द्रबलं तदेव । विद्यावलं दैवबलं तदेव लक्ष्मीपते तेऽङ्घ्रियुगं स्मरामि ।। ॐ प्रतिष्ठति ज्योतिर्विदा पठिते विप्राः सद्योऽन्तःपटमुदगपसार्य वधू. बराभ्यां परस्परं सुमुहूर्ते निरीक्षणं कारयेयुः । ततो वधूवराभ्यां परस्पर मञ्जलिस्थतण्डुलजीरकावकिरणं कन्यापूर्वकं कारयेयुराचारात् । ततो द्विजा ऋक्च वेत्यादीनि खण्डानि प्रजापतिः सोम राजानमसृजतेत्यनुः वाकं सिहे व्याघ्र इत्यनुवाकमस्मे देवास इति चतुरो मन्त्रांश्च पठेयुः । तत्तदन्तेऽक्षतारोपणं चाऽऽचारात् ।। अथ कन्यादानप्रयोगः-कन्यादाता वरदत्तवस्त्राभरणादिरहिता स्वदे. यवस्त्राभरणायलंकृतां कृतपीतवस्त्रपरिधानां कन्यां वराय दद्यात् । अश्मानं निष्काश्य पीठे कन्यामुपवेश्य वधूवरयोर्मध्यप्रदेशस्य दक्षिणत उदङ्मुख उपविश्य दक्षिणतः पत्नीमुपधेश्याऽऽचम्य पवित्रपाणिः प्राणानायम्य देशकालौ संकीर्त्यानुकावरान्वितामुकगोत्रोत्पन्नोऽमुकशर्माऽहं मम समस्तपितॄणां निरतिशयसानन्दब्रह्मलोकावाप्त्यादिकन्याप्रतिपादनक. ल्पोक्तफलावाप्तयेऽनेन वरेणास्यां कन्यायामुत्पादयिष्यमाणसंतत्या द्वाद. शावरान्द्वादश परान्पुरुषान्पषित्रीकर्तुमात्मनश्च लक्ष्मीनारायणप्रीतये घ्नामविवाहविधिना कन्याप्रतिपादनं करिष्य इति संकल्पं कुर्यात् । ततः सपत्नीक, उत्थायोदड्मुख एव तिष्ठन्ती प्रत्यङ्मुखी कन्या दक्षिणहस्ते धृत्वा कन्यां कनकसंप० तारणाय चेति पठित्वाऽन्येन येन केनचित्कांस्यायन्यतमे तैमसे पात्रे घृते प्राङ्मुखेण तिष्ठता वरण तस्मिन्पात्र तिष्ठन्त्याः प्रत्यङ्मुख्याः फन्याया दक्षिणे हस्ते गृहीते हस्तद्वये वा सयवाक्षततुलसीपत्रकुशसहितमुदकं क्षिपस्त्रयोदश वाक्यानि पठेत् । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034602
Book TitleSanskar Paddhati
Original Sutra AuthorN/A
AuthorBhaskar Shastri, Sudev Shastri
PublisherVinayak Ganesh Apte
Publication Year1924
Total Pages262
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy